________________ विमलप्रभायां - ["अध्यात्म इह शरीरे नाभिकमले द्वादशनाड्यात्यक राशिचक्रम् / तत्र जन्मस्थान प्रथमराशिनाडीगर्भोत्पादस्य बालकस्य यल्लग्नं तदेव वृषभादिकं समनाडीस्वभावम्; तस्मात् स्वस्थानाद राशिचक्रं द्वादशारं नाडीचक्रं षष्टिमण्डलात्मक त्यजति परकला प्राणशक्तिः / हानिशेषश्च तुल्यैरिति हानिरारोहणदिवसाः पञ्च दश पञ्चदश पञ्चविंशतिः 5 षड्विंशतिः सप्तविंशतिरिति हानिः; शेषास्त्रिवर्षा, द्वौ वर्षों एकवर्ष' षण्मासाः त्रिमास(साः) द्वौ मासौ मासमेकमिति हानिशेश(षा)स्तैहानिशेषैः प्रथम पत्रादिकं यावत् सप्तनाडीपत्रं तावत् क्रमो वर्षेमसिरिति त्रिनयनशशिभिवर्नाडीत्रयं त्यजति, नियुT309 ग्मेन्दुभिर्मासैः सप्तनाडी त्यजति / दिनैश्च पौष्णात् वै हानितुल्यैः पौष्णकालावधेर्जन्म स्थानात् सप्तमोऽर्कस्यास्तमनकालो रजस इति [111b], तस्मात् पौष्णात् तुल्यैरा10 रोहणायुदिन राशिनाडीपरित्यागः प्राणशक्तेः तिथिः पञ्चदशदिनैः, दिक् दशदिनैरिषुः पञ्चदिनैगुणैरिति त्रिभिर्दिनैरेभिस्त्रयस्त्रिशदिनैरष्टमीनाडी नवमीनाडी दशमीनाडीमेकादशीश्च राशिनाडी पञ्चमण्डलवाहिनीं सूर्यप्रवाहेण त्यजति एकदक्षिणनाडीप्रवाहेण / द्वादशमी दिनद्वयेन वामनाड्यां मध्यमा यामेकदिनेनेति कणिकायां प्रविष्टः(ष्टः)।' एवं षोष्णात् षट्त्रिंशदिनैभवति दिनकरारिष्टयोगेन मृत्युनराणामिति द्वितीय15 व्याख्याननियमः। पूर्वे वाणाग्निलोकं त्यजति दिनगणं सूर्यवर्षत्रयस्य तस्मात् सारोहणं वै शरयुगशिखिनं खाग्निचन्द्रं तृतीये / नेत्राहिशैलवाणं वसुकरमपरं सप्तमे रोहणं च तस्मात् तिथ्यादिसर्वं दिनगणमपि यत् कणिका यावदेव // 64 // इदानी पत्रात्" पत्रे' त्रिवर्षाद् दिनत्याग उच्यते पूर्व इत्यादिना इह राशिचक्रे जन्मलग्ननाडी पूर्व इत्युच्यते; तस्मिन् जन्मलग्नपत्रे अशीत्युत्तरसहस्रदिनगणात् मध्ये वाणाग्निलोकमिति पञ्चत्रिंशदधिकत्रिंशदिनगणं त्यजति त्रिवर्षेभ्यः / ततस्तत्पत्रं शून्यीकृत्य द्वितीयपत्रे अवशेषदिनगणं गृहीत्वा प्राणशक्तिः प्रविशति, तस्माद दिनगणात् सारोहणं पूर्वादपरपत्ररोहणदिनैर्दशभिः सार्धं शरयुगशिखिनमिति 25 पञ्चचत्वारिंशदधिकत्रिशतदिनगणं त्यजति द्वितीयपत्रे / ततोऽवशेषं गृहीत्वा तृतीयपत्रे प्रविशति, द्वितीयं शून्यं भवति / पुनस्तत्रैव पञ्चदशारोहणदिनैः सार्द्ध सप्तत्यधिकशतदिनं तृतीयपत्रे त्यजति; अवशेषं गृहीत्वा चतुर्थ प्रविशति, तृतीयं शून्यं भवति / ततो विंशत्यारोहणदिनैः सार्द्ध नेत्राहिरिति द्वयशीतिदिनगणं त्यजति चतुर्थपत्रे; अवशेषं गृहीत्वा पश्चमे [112a] प्रविशति, चतुर्थ शून्यं भवति / पुनः पञ्चविंशत्यारोहणदिनैः सार्द्ध 1. क, ख. एकवर्षा / 2. क. ख. पुत्रादिकं / 3. ख. पुस्तके नास्ति / ४.क. ख. मध्यमो। 5-6. क. ख. पत्रास्यते: भो. hDab ma bCugNis. La (द्वावधपत्रे)।