________________ पटले] 15 अरिष्टमरणलक्षण-नाडीच्छेद-महोद्देशः काले पौष्णे समस्तास्त्रिनयनशशिनः षट् त्रियुग्मेन्दवो ये मासास्तेऽहानिशेषास्तिथिदिगिषुगुणा द्वीन्दवो जीवितस्य // 62 // इह शरीरे चन्द्रः सूर्यगुणान् सत्त्वरजस्तमो गृहीत्वारिष्टदिनानि दर्शयति; सूर्यश्चन्द्रगुणान् शब्दस्पर्शरूपरसगन्धान् गृहीत्वा ह(ह्य)रिष्टदिनानि दर्शयति / पञ्चपञ्चोत्तरेण पञ्चराशिं यावत्, ततो राशिद्वयमेकोत्तरेण, ततो मूलादारभ्य त्रयस्त्रिंशद्- 5 दिनानि आरोहति, पञ्चदशदिनैरष्टमराशिं त्यजति, दशभिनवराशिं त्यजति, पञ्चभिदशमराशिम्, त्रिभिरेकादशराशिम् / एवं त्रयस्त्रिंशद्दिनानि दक्षिणनाड्यां प्राण आरोहते / ततो द्वादशराशौ दिनद्वयं वामनाड्यां वामनाडीधातुक्षयार्थम्, दिनमेकं मध्यनाडयां श्वासचक्रक्षयार्थम्, ततो मरणं गच्छतीति / तद्यथा पञ्चभ्योऽवधि-दिनेभ्यः पञ्चविंशतिदिनानि यावद् दिवसगतिल्हारोहते पञ्चवृद्ध्या / पञ्च दश पञ्चदश 10 विंशति पञ्चविंशति जन्मनः पञ्चराशिषु / तस्मादेकोत्तरेण षट्विंशत्सप्तविंशदिनानि षष्ठे सप्तमे राशौ यथाक्रमं सत्त्व[र]जसोः क्षयार्थम् / ततः काले पौष्णे सति त्रिगुणितदशकम् अष्टमे नवमे दशमे राशौ रोहते प्राणः; ततः एकादशे व्युत्तरं मासं भवति यावदेव / समा (समस्ता) वर्षाऽरिष्टदिनावशेषा राशिचक्रे जन्मराश्यादिषु द्वादशराशिष त्रिनयनशशिनः जन्मराशौ त्रिवर्षा / अरिष्टदिनावशेषा द्वितीये द्विवर्षम्, तृतीये वर्षमेकमिति समारिष्टदिनावशेषा जीवितस्य। ततः षटत्रियग्मेन्दवो ये इति चतर्थराशी षण्मासास्ते, पञ्चमे त्रयो मासाः, षष्ठे मासद्वयम्, सप्तमेऽरिष्टदिनावशेषमासमेक जीवितस्य / ततो जन्मस्थानात् सप्तमस्थानं पोष्णं गर्भजानामाधानमासं(7) मकरः / तस्मात् सप्तमं प्राणजन्ममासं कर्कटश्चन्द्रनाडीवृद्धिपरित्यागात् द्वादशराश्यन्ते पुनर्मकरो भवति, त्रयोदशमासो गर्भाधानादिति / अतः कर्कटः प्राणस्य जन्मस्थानं न सूर्यस्यैवेति / 20 तत उदयति / तस्माज्जन्मनो मकरोदये सप्तमे राश्युदये सूर्यस्यास्तमनं नाम पोष्णकालः / [illa] तस्मात् कालात् प्राणोऽवैवतिको भवति, शरीरे स्थिरीकर्तुं न शक्यते देवासुरैर्मनुष्यैः। रात्रिभागे चन्द्रोदयकाल इति; चन्द्रोदयो नाम शुक्रधाती मृत्युप्रवेश इति / मत्यरुदयो' न शक्रधातोरिति, अरिष्टवायप्रवेशादिति / ततः पौष्णकालात् शुक्रक्षयार्थं त्रयस्त्रिंशद्दिनानि प्राणो रोहते दक्षिणनाड्याम्; ततो दिनद्वयं / वामनाड्याम्, दिनमेकं मध्यमानाड्यामिति / अहानि शेषाः, तिथिः पञ्चदश, विपिति दश, इषुः पञ्च, गुणा इति त्रयः, द्वि इति द्वे, एकदिनं जीवितस्येति सूर्यारिष्टे एकव्याख्याननियमः। इदानी द्वितीयव्याख्यानमुच्यते स्वस्थानादित्यादिनास्वस्थानाद् राशिचक्र त्यजति परकला हानिशेषैश्च तुल्यैवर्षौसैदिनैश्च त्रिनयनशशिभिः षत्रियुग्मेन्दुभिश्च / पौष्णाद् वै हानि तुल्यैस्तिथिदिशि(गि)षु गुणैः कणिकायां प्रविष्टे: षट्त्रिंशद्भदिनान्ते भवति दिनकरारिष्टयोगेन मृत्युः // 63 / / 1. क. मृत्योरुदयो। 2. ग. मध्यमानामनाड्यामिति /