________________ 5 विमलप्रभायो [ अध्यात्मततः पञ्चमपत्रं त्यजति; सप्तपत्रेषु संक्रान्ति करोति; एकविंशतिमासेभ्यो मासत्रयमूनं भवति, तथा षोडशदिनं सप्तदशदिनमष्टादशदिनं प्रतिमासं वहति यथाक्रमम् / ततः षष्ठं पत्रं त्यजति; षट्पत्रेषु संक्रान्ति करोति; अष्टादशमासेभ्यो मासत्रयमूनं भवति जीवितस्येति / एवमेकोनविंशतिदिनं विंशतिदिनमेक 'विंशतिदिनं वहति / ततः सप्तम राशिपत्रं त्यजति, प्राणः पञ्चराशिपत्रेषु संक्रमणं करोति अहोरात्रेणेति / ततः पञ्चदशT308 मासेभ्यो मासत्रयमूनं भवति जीवितस्य / एवं द्वाविंशतिदिनं त्रयोविंशतिदिनं चतुर्विंशतिदिनं निरन्तरं यदा वहति, तदा अष्टमपत्रं त्यजति, चतुर्ष संक्रान्ति करोति, द्वादशमासेभ्यो मासत्रयमूनं भवति जीवितस्य / एवं पञ्चविंशतिदिन षड्विंशतिदिनं सप्तविंशतिदिनं यदा वहति, तदा नवमं पत्रं त्यजति, पत्रत्रये संक्रमणं करोति, नव10 मासेभ्यो मासत्रयमूनं भवति जीवतस्येति / तथा अष्टाविंशतिदिनमेकोनत्रिंशदिनं त्रिंशद् दिनं यदा वहति, तदा दशमं पत्रं त्यजति, पत्रद्वये संक्रान्ति करोति, षण्मासेभ्यो मासत्रयमूनं भवति जीवितस्य / [110a] तथैकत्रिंशद्दिनं द्वात्रिंशदिनं त्रयस्त्रिंशदिनं यदा वहति, तदा एकादशमं पत्रं त्यजति, एकपत्रे संक्रान्तिं करोति, त्रिमासेभ्यो नवति दिनानि ऊनानि भवन्ति जीवितस्येति / ततः पूर्वपत्रे अवाहितदिनत्रयं द्वादशमे पत्रे 15 दिन द्वयं वहति / ततो द्वादशमं पत्रं त्यजति, ततः कणिकायामेकदिनं वहति, यावत् प्राणचक्रश्वासविच्छेदो भवति / ततो वामनाङ्यरिष्टेन मरणं यान्ति अयोगिनो ये नरा इति वामनाड्यां चन्द्रारिष्टनियमः। सत्त्वरजस्तमोभेदेन प्रतिमासे[s]रिष्टदिनवृद्धिरेकोत्तरेणेति। अत्र राशिचक्रन्यासः -राशिचक्रं द्विपुटं कृत्वा प्रथमपुटे अरिष्टदिनानि, अपरपुटे अरिष्टदिन20 शेषा आयुर्मासा इति। अत्र प्रथमचक्रारे अरिष्टदिनानि त्रीणि, मासास्त्रिंशत्, द्वितीयपुटे अरिष्टदिनानि षट्, शेषा आयुर्मासाः सप्तविंशत्(तिः)। एवं तृतीये आरे अरिष्टदिनानि नव, तथा मासाश्चतुर्विंशतिः; चतुर्थे दिनानि द्वादश मासा एकविंशतिः; पञ्चमे दिनानि पञ्चदश, मासा अष्टादश; षष्ठे दिनानि अष्टादश, मासाः पञ्चदश; सप्तमे दिनान्येक विंशतिः, मासा द्वादश; अष्टमे दिनानि चतुर्विंशतिः, मासाः नव; नवमे दिनानि सप्त25 विंशतिर्मासाः षट्, दशमे दिनानि त्रिंशत्, मासास्त्रयः; एकादशमे चक्रारे अरिष्टदिनानि त्रयस्त्रिंशत्; अवसाने त्रिमासक्षयः / ततः पूर्वमनारूढं दिनत्रयं प्रथमराशौ चक्रारे पत्र(यद्) दिनद्वयं द्वादशमे पत्रे दक्षिणनाड्यां वहति दक्षिणनाडीधातुक्षयार्थम्; दिनमेक मध्यमायामवधूत्यां वहति श्वासचक्रक्षयार्थम् / ततः प्राणोत्क्रान्तिश्चन्द्रारिष्टे वामनाच्यामिति चन्द्रारिष्टनियमः। [110b] इदानीं सूर्यारिष्टं दक्षिणनाड्यामुच्यते पञ्चम्य इत्यादिनापञ्चभ्यः पञ्चविंशदिवसगतिरुहारोहते पञ्चवृद्ध्या तस्मादेकोत्तरेण त्रिगुणितदशकं व्युत्तरं यावदेव / 1. ख. विंशतिएक० / 2. क. ख. पुस्तकयो स्ति / 3. क. ख. पत्राये / 4. क.ख. त्रिमासद्वयं /