________________ पटले 1 अरिष्टमरणलक्षण-नाडीच्छेद-महोद्देशः अव्युच्छिन्नैकमासं वहति नरपते जीवितं च त्रिमासं एवं योगी स्वेदेहे शशिगतिमरणं ज्ञायते कालचक्र // 61 / / [109a] इह शरीरे नाभिचक्रं द्वादशारं राशिचक्र मेषादिविषमलग्नात्मकमेकान्तरितम् / एवं वृषभादिसमलग्नात्मकमेकान्तरितं दलम् / अतः प्राणसञ्चारो नासापुटे विषमलग्नेषु मेषादिसु षट्सु वामे भवति / वृषभादिसमलग्नेष दक्षिणनासापुटे प्राणसञ्चारो भवति। 5 पश्चपञ्चदण्डैदशसंक्रान्तयः प्रत्यहं भवन्ति / एवमहोरात्रेण षष्टिदण्डादश संकान्तयःषड् वामनासापुटे, षड् दक्षिणनासापुटे, मध्यमायां द्वादशप्रवेशेष्विति / धातुसमत्वं शरीरे रोगरहितानां रोगाभिभूतानां पुनर्वातपित्तश्लेष्मधातूनां वैषम्यम् / अतो वैषम्यात् प्राणस्य वैषम्यम्, तेन अहोरात्रमेकरात्र्यां(नाड्यां) वामायां यदि वहति, तदा जीवितं कालवर्षम्; मध्यमा वर्षशतपूर्णलक्षणं जीवितसंख्यं नराणां भवति / 10 अव्युच्छिन्नेकपक्षं यदि वहति, तदा सार्धवर्षमायुर्भवति'; ततो मरणं गच्छति / अव्युच्छिन्नं निरन्तरं यदि मासमेकं वामनाड्यां वहति, तदा जीवितं मासत्रयं भवति / एवं स्वदेहे योगिना शशिगतिमरणं ज्ञायते कालचके इति / अत्रारिष्टविषये कालचक्रं द्वादशारं राशिचक्रं तदेव भूम्यां लिखित्वा प्रथमदलेऽरिष्टदिन षट्त्रिंशदायुर्मासाः स्थापनीयाः / ततो मासमेकं न वहति, अरिष्टदिनवृद्धिः 15 द्वितीयमासान्ते तृतीयमासप्रवेशे दिनद्वयं वहति वामनाडी तस्मिन्नेव पत्रे' / ततस्तृतीयमासं न वहति, चतुर्थमासान्ते पञ्चममासप्रवेशे दिनत्रयं वामनाडी(ड्यां) प्राणो वहति / ततः पञ्चममासात् षष्ठे मासे न वहति / एवं षण्मासैररिष्टदिनास्त्रयः (दिनानि त्रीणि); मध्ये दिनास्त्रयो (दिनानि त्रीणि); अन्ते सव्या वामारिष्टधर्मिणः / अरिष्टं नामाकालमरणम्; रिष्टं वर्षशतावधेर्मरणमिति / एवं षट्त्रिंशन्मासेम्योऽरिष्टदिनसहितेभ्यो जीवितस्य 20 षड् मासा गताः। ततस्तस्मिन् पत्रे प्रा[ण]वायोरसञ्चारः। एकादशसंक्रान्तिभिरहोरात्रं व्रजति षट्शताधिकैकविंशत्सहस्रश्वासप्रश्वासैरिति / अत्र श्वासचक्रस्योनता [109b] नास्ति राशिपत्रपरित्यागेऽपीति / ततो द्वितीयपत्रे चतुर्दिनं पञ्चदिनं५ षडदिने(नं) सप्तमे मासे अष्टमे नवमे च यथासंख्यं वहति / ततस्त्रिशन्मासराशेरपरमासत्रयं जीवितस्य गतम् / ततः सप्तविंशन्मासान् गृहीत्वा तृतीये पत्रे प्राणः सञ्चरति, पत्रद्वयं त्यजति / 25 दशसंक्रान्तिभिरहोरात्रं करोति, दशपत्रेषु संक्रमति प्राण इति / सप्तविंशतिमासेभ्यः प्रत्येकमासे पुनः सप्तदिनं वामनाडी वहति, अष्टदिनं नवदिनं वहति / ततो मासत्रयमपरमूनं भवति सप्तविंशतिमासेभ्यः / एवं पूर्वोक्तविधिना तृतीयं राशिपत्रं त्यजति / नवपत्रेषु संक्रमणं प्राणः करोति / एवं दशदिनमेकादशदिनं द्वादशदिनं वामनाड्यां वहति / ततश्चतुर्थं पत्रं त्यजति / ततश्चतुर्विंशतिमासेभ्यो 30 मासत्रयमूनं भवति जीवितस्य / एवं त्रयोदशदिनं चतुर्दशदिनं पञ्चदशदिनम्; 1. ख.. वहति / 2. क. ख. ग. यन्त्रे; भो. hDab ma La (पत्रे)। 3. भो. rTsar (नाड्यां)। 4. क. ख. सव्या०। 5. ग. पुस्तके नास्ति / 6. भोटानुवादे 'ततः' इति नास्ति /