________________ 188 विमलप्रभायां [ अध्यात्मएवं तत्रादिबुद्धे स्वकरनृपतयोः देवतादेवतीनां प्रज्ञोपायो निशाहो भवति हि समविभागोऽर्द्धरात्रे दिनार्द्ध / येन ज्ञातं स्वदेहे दिननिशिसमयैर्माससंक्रान्तिभेदैः स श्रीमान् मञ्जुवज्रो भवभयमथनो जन्मनीहैव बुद्धः // 56 // एवं सूर्यचन्द्रदेवतागणैरेकीभूतैश्चादिबुद्धं (द्धो) भवति। तस्मिन्नाविबुधे स्वकरनृपतयो विंशत्यधिकषोडशशतसंख्या इति, तेषां देवतादेवतीनां प्रज्ञोपाय(यो) निशाह इति / यथासंख्यं प्रज्ञा रात्रिभागः, उपायो दिवाभागः समविभागो मध्याह्नादर्वरात्रे अर्द्धरात्रान्मध्याह्ने सार्द्धत्रयोदशनक्षत्रः दशाधिकाष्टशतदण्डै[107a]र्वा घटिका भिर्वा निशाविभागः; एवं दिवाविभागः। श्रीमान्न(ति)क्षत्रमण्डले आदिबुद्धे देवतागणो 10 नक्षत्रनाडीसंख्यात्मको भगवतोक्त इति / यथा बाह्य नक्षत्रघटिकाभोगः सर्वग्रहाणाम्, तथाध्यात्मनि कायवाञ्चित्तज्ञाने षडिन्द्रियधर्माणामिति / येन ज्ञातं स्वदेहे / एवमुक्तक्रमेण प्रज्ञोपायात्मकं येनादिबुद्धं (इति) स्वदेहे ज्ञातम् / दिननिशिसमयैः सन्ध्याप्रहरादिभेदैः माससंक्रान्तिभेवदिशभिः स योगी श्रीमान् म वज़ो भवभयमथनो जन्मनीहैव बुद्ध इति लघुतन्त्रमूलतन्त्रदेवतोत्पादनियमः / त्रिंशद्भागेन तस्मात् त्रिगुणितनियता देवताः कालचक्रे मुद्राषटकं च बाह्यं पुनरपि नियताश्चक्रनाड्यस्तथैव / उष्णीषे द्विः हृदोऽष्टौ शिरसि नृपतयो दन्तसंख्या च कण्ठे नाभौ चाष्टाष्टगुण्या द्विगुणनृपतयो गुह्यमध्ये प्रसिद्धाः // 57 / / इदानीमतः परमादिबुद्धाल्लघुतन्त्रोत्पाद उच्यते त्रिंशदित्यादिना इह परमादिबुद्धात् विंशत्यधिकषोडशशतात् त्रिंशद्भागेन लब्धाः चतुपञ्चाशद्देवता भवन्तीति / पुनः कायवाञ्चित्तगुणितास्त्रिगुणा द्वाषष्ट्यधिकशतं भवति / एषु माण्डलेयाश्चतुःपञ्चाशदधिकशतसंख्या मण्डलेसं(शं) प्रज्ञोपाययुग्मं बाह्य मुद्राषट्कमिति / कालचक्र परमादिबुद्धान्निर्गतं दशभागेनेडादिसं(शं)खिन्यन्तनाडीभेदेनेति बाह्य नेयार्थमिति लघुकालचक्रनियमः। इदानीं कालचक्रनाड्य उच्यन्ते चक्रनाड्यस्तथैवेत्यादिना इह शरीरे त्रिकुलनाड्यस्तिस्रः कायवाञ्चित्तविन्दुधारिण्यः, नाभौ गुह्यवज्रमणाविति तथा षट्कुलनाड्यो ललना-रसना-अवधूती-विण्मूत्र-शुक्रवाहिन्य इति / तथा षट्त्रिंशत् कुलनाड्यः उष्णोषाविषट्चक्रनाड्यः षट्, द्वे शब्दग्राहिण्यो, द्वे स्पर्श ग्राहि[107b]ण्यो, द्वे रसग्राहिण्यौ, द्वे रूपग्राहिण्यौ, द्वे गन्धग्राहिण्यो; एता दश30 नाड्यः / नाभिचक्रमध्येऽपरमण्डलेषु द्वादशसंक्रान्तिनाड्यः, अष्टप्रहरनाड्यः / एवं सर्वाः षट्त्रिंशत् कुलनायिका भवन्ति-षड् रसरूपिण्यः, षड् धातुरूपिण्यः, षडिन्द्रियरूपिण्यः, षडविषयरूपिण्य,षट् कर्मेन्द्रियरूपिण्यः, षट् कर्मेन्द्रियविषयरूपिण्यः, एवं षड् रूपप्रकतिन्यः