________________ T306 पट] चक्रवत्तिम्लेच्छयुद्ध-कामपाकुलता-नाडीकुलोत्पत्ति-महोद्देशः 187 इदानीं कालचक्रदेवतादेवीसंख्या उच्यते शक्तीत्यादिना इह षट्चक्रनाडीविश्वस्वभावो देवतागणः। शक्तिः क्रोषाः क्रमेण प्रभवति दशकमिति दश शक्तयो दश पारमिताः; उष्णीषादयो दशक्रोधा इति प्रत्येकं वशकम् / पञ्चकं बुद्धदेव्य इति अक्षोभ्यादयः पञ्च बुद्धाः, वज्रधात्वीश्वर्यादयः पञ्च देव्यः इति प्रत्येकं पञ्चकम् / रूपाद्यक्ष्यादिषट्कं पुनरपि नृपते देववृन्दं द्विषटकं योगिन्यो नागचण्डाष्टकमिति भवने सर्वमेतद् द्विगुण्यम् / एतत् श्रीकालचक्रं चतुरधिकशतं तस्य चार्द्ध त्रिधातौ सूर्यांशे या च षष्टिः प्रतिदिनघटिका निर्गता मासमध्ये // 54 // रूपांवक्ष्याविषट्कमिति / रूपवज्रादयः षट् क्षितिगर्भादयः षट्, एवं प्रत्येकं 10 षट्कं पुनर्वेववृन्दं द्विषट्कमिति इन्द्रादिकं द्वादशसंख्यम्, योगिन्यो नागचण्डाष्टकमिति चचिकादीनामष्टकम्, अनन्तादीनामष्टकम्, श्वानास्यादीनामष्टकम्, एतत् समस्त(1) देवतागणम(:) साधनापटले प्रत्येकं नामभेदैर्वक्तव्यमिति / भवन इति बाह्येऽध्यात्मनि सर्वमेतत् पुनः प्रज्ञोपायभेदेन द्विगुण्यम्; एतत् श्रीकालचक्रं चतुरधिकशतं तस्य चाधं द्वापञ्चाशदेवतात्मकम् / एवं सूर्यचन्द्रभेदेन पुनस्तदेवैकत्वेन षट्पञ्चाशदधिकैक- 15 शतदेवात्मकं कालचक्र वेदितव्यम् इति कमलकर्णिकास्थदेवतागणनियमः / इदानी चचिकादिकमलपत्रदेव्य उच्यन्ते सूर्याशे द्वात्रिंशद्भागेन श्वासचक्रात् प्रतिदिने घटिकाद्वयं यल्लब्धं मासस्य मध्ये त्रिंशदिनैः षष्टिनाड्यो भवन्ति कुलिकारूपिण्यः / योगिन्यस्ताः समस्तास्त्रिभुवननिलये लग्नमिश्रा द्विगुण्या सूर्यांशेऽहः प्रभिन्नं द्विगुणितमपि यद् योगिनीवृन्दमत्र [106b] / . पिण्डीभूताः समस्तास्त्रिगुणरविदिनास्साभिधाना भवन्ति चन्द्रे पक्षप्रभेदो भवति दिनकरे वर्गभेदः समस्तः // 55 // ताश्च योगिन्यो लग्नमिया लग्नचतुःसन्ध्याकुलिका विमिश्रा चतुःषष्टिर्भवन्ति / ताश्च प्रज्ञोपायभेदेन द्विगुणिता अष्टाविंशत्यधिकशतसंख्या भवन्तीति / पुनः सूर्याशेऽहः 25 प्रभिन्नं षष्टयुत्तरत्रिशतदिनप्रभिन्नं चैत्रादितिथिलक्षणं देवतागणम् / तदेव द्वादशलास्यादिभिः सहितं द्विगुणितमपि विंशत्यधिकसप्तशतसंख्यं देवतीवृन्वं भवतीति / पिण्डीभूताः समस्ता इति एता देव्यः साभिधाना द्वासप्ततिदेवताभिः सहिता मुद्राषट्केन सार्द्ध त्रिगुणरविविना त्रिवर्षदिना अशीत्युत्तरसहस्रसंख्या इति त्रिवर्षदिनगणस्वभावा देवतादेव्यो वेदितव्या योगिनीतन्त्रेऽ[इत्य]भिप्रायः / एवं सूर्यवर्षप्रभेदो भवति शशधरे पक्षभेदः 30 समस्तो मायाजालसमाजयोर्नवधा चत्वारिंशदधिकपञ्चशतदेवतागणैरिति / /