________________ 146 विमलप्रभाग [ अध्यात्मएषु षट्षु तन्त्रराजेषु द्वात्रिंशदधिकशतदेवतायुग्मैः संख्या द्विगुणिता देवतादेवतीसंख्या चतुःषष्ट्यधिकद्विशता इति / एवं समाजमायाजालेषु नवसु तन्त्रराजेष्वधिपतियुग्मेन साद्धं चत्वारिंशदधिकपञ्चशत' दिनाङ्गसंख्या देवतादेवत्यो भवन्ति / एषु तन्त्रेषु स्कन्धधात्वायतनचन्द्रसूर्यचरणनिष्पत्तिभेदेन भेदो गर्भे यथा तथा पश्चमपटले 5 आसनभेदेन वक्तव्य इति योगतन्त्रनियमः। इह गर्भे जातकस्य स्कन्धधातुनिष्पत्त्या नवात्मकः समाजः, तथा स्कन्धधातुसहजधर्मसम्भोगनिर्माणचक्रे निष्पत्त्या त्रयोदशात्मकः, तथा स्कन्धधातुचक्रविषयनिष्पत्त्या एकोऽनविंशत्यात्मकः, तथा स्कन्धधातुचक्रविषयषट्नेत्रादिनिष्पत्त्या पञ्चविंशत्यात्मक इति / तथा स्कन्धधातूचक्रविषयेन्द्रियकर्मेन्द्रियगुह्योष्णीषकमलनिष्पत्त्या द्वात्रिंशदा10 [105b]त्मक इति / तथा स्कन्धधातुषट्चक्रविषयेन्द्रियकर्मेन्द्रियदिव्येन्द्रियानन्दोपेत्या (अनिन्दानुपेत्य) चतुस्त्रिशदात्मकः समाज इति / गर्भाधानात् षोडशवर्षावधेर्यावत् षट्प्रकार उत्पादो बालानामिति समाजनियमः पञ्चमपटले विस्तरेण वक्तव्यः / एवं मायाजाले स्कन्धधातवो नवलोमाद्यष्टधातवो द्वादशायतनानि चतुश्चक्रसहितानि वातपित्तश्लेष्मसन्निपातधातुसहितानि षट्कर्मेन्द्रियाणीति त्रयश्चत्वारिंश15 दात्मको मायाजालः / उष्णीषगुह्यकमलसहितं पञ्चचत्वारिंशदात्मकमिति रागद्वेषमोह मानेन सार्द्धमेकोनपञ्चाशदात्मकमिति मायाजालनियमः पञ्चमपटले विस्तरेण वक्तव्य इति योगिनीयोगतन्त्रोत्पादनियमः। - इदानीं बाह्याध्यात्ममुद्रोच्यते - इह सर्वत्र हेतुना फलं मुद्रणीयम्, फलेन च हेतुर्मुद्रणीय इति / रजोधर्मित्वात् 20 सूर्यः प्रज्ञाहेतुः, शुक्रमित्वाच्चन्द्रः फलमुपायः। परापेक्षिकया शुक्रमित्याच्चन्द्रः प्रज्ञाहेतुः, रजोधर्मित्वादुपायः सूर्यः फलम् / एवं सर्वत्र प्रज्ञा शून्यताहेतुः, उपायः करुणा फलमिति / चन्द्रांशे षड् दिना ये(नि) खलु दिवसगणे वारभागेन लब्धाः षण्मुद्रा वज्रिणस्तास्त्वपरदिनगणः कायवाञ्चित्तमुद्राः / 25 प्रज्ञाकाये त्रिलग्ना प्रकटितनियता योगिनी योगतन्त्रे शक्तिः क्रोधाः क्रमेण प्रभवति दशकं पञ्चकं बुद्धदेव्यः / / 53 // अत्र ये चन्द्राशे पञ्चचत्वारिंशददिनगणास्तस्माद वारभागेन लब्धाः षड दिनानि षण्मुद्रा वज्रिणो भवन्ति-चक्री कुण्डलं कण्ठिका रुचकं मेखला भस्मयज्ञोपवीत मिति, बाह्यमुद्रा कालचक्रस्य अपरविनगणम्(:) / अवशेष त्रिसंख्यं कायवाञ्चित्तमुद्रा 30 अध्यात्मनि वज्रिण इति बाह्याध्यात्मनि नव मुद्रा वेदितव्याः। प्रज्ञाकाये प्रजातन्त्रे उपायकाये उपायतन्त्रे त्रिलग्ना सत्त्वरजस्तमात्मकाः कायवाञ्चित्तलक्षणा' इति योगिनी योगतन्त्र प्रकटितो मुद्रानियमः / [106a] 1. ग. पञ्चाशत / 2-3. स. पुस्तके नास्ति / ४.क.कायवाक्लक्षणां। .