________________ 184 - विमलप्रभायां [ अध्यात्मएवं म्लेच्छेन्द्रयुद्धं भवति हि नियतं देहिनां देहमध्ये मायारूपं तु बाह्ये खलु मखविषये म्लेच्छयुद्धं न युद्धम् // 50 // यो बाह्य अश्वत्थामा स देहे अविद्याप्रवृत्तिरिति; यद् बाह्य बनुबलं हस्त्यश्वपादातिकं स देहे मारपक्षश्चतुर्धा / संहारस्तस्य युद्ध, यो बाह्य म्लेच्छेषु तत् स्वदेहे 5 [104a] भवभयस्य निधनम् / श्रीजयो यो बाह्य महाचक्रिणः कल्किनश्च स स्वदेहे मोक्षमार्गलाभः। यद् बाह्य कैलाशे(से) धर्मदानं महाचक्रिणः तत् स्वदेहे भवभयहरणम् / या बाह्य द्रव्यपूर्णा धरित्री सा शरीरे धातुसमूहो विशुद्धः / बाह्य यो चक्रिणः पुत्रौ ब्रह्मासुरेशावभूताम्, पृष्ठतः एकखण्डे धर्मदेशकः, अग्रतोऽनखण्डे म्लेच्छधर्मक्षयार्थी। स मञ्जश्रीर्लोकनाथस्त्रिभुवनविजयी तत् स्वदेहे रजो बोधिचित्तं सुखदमिति प्रणिधानचित्तं प्रस्थानचित्तं च / पृष्ठे खण्डे ये ब्रह्मादिविविधवंशास्ते स्वदेहे अनेकबुद्धा विशुद्धाः स्कन्धधात्वायतनस्वभावा इति म्लेच्छेन्द्रयुद्धं भवति हि नियतं देहिनां देहमध्ये / मायारूपं तु बाह्य खलु मखविषये म्लेच्छयुद्धन युद्धमिति अस्य विस्तरो वक्ष्यमाणे पञ्चमपटले परमाक्षरज्ञानसिद्धौ वक्तव्य इति / . . इदानीं मध्यमा त्रिपक्षं त्रिवर्षभेदस्त्रिकुलादितन्त्रभेदः समाजादिक उच्यते कालाब्द इत्यादिना कालाब्दे वह्निसंख्येऽब्ददिनगणहते षट्कुल चायनाङ्कात् षट्त्रिंशन्मासभेदाद् रसगुणितरसाद् योगिनीनां कुलानि / ' वारच्छेदेन लब्धा प्रकटितनियता देवताः कालचके पक्षच्छेदेऽभिधानं भवति नरपते देवतादेवतीभिः // 51 // इह कालाब्दे मध्यमा'नाडोवर्षे वह्निसंख्ये त्रिवर्षसंख्ये अ[104b]ब्दविनगणहते षष्ट्यत्तरत्रिशतदिनहते सति अशीत्यत्तरसहस्रो दिनगणो भवति / तदेव त्रिवर्षं त्रिकलं कायवाक् चित्तकुलवर्षभेदेन सत्त्वरजस्तमः स्वभावमिति / ततो दिनगणादयनभेदेन अशीत्युत्तरशतभागेन लब्धानि षट्कुलानि भवन्ति / पुनर्मासभेदेन ततो दिनगणात् T 305_25 त्रिंशद्भागेन लब्धानि षत्रिंशत् कुलानि भवन्ति / रसगुणितरसादिति षड्भिर्गुणिताः षट्त्रिंशद्योगिनीनां कुलानि / एवं योगिनीनामुपायानामिति / ततोऽशीत्युत्तरसहस्रदिनगणात् वारच्छेदेन लब्धा प्रकटितनियता देवता कालचक्र माण्डलेया इति / चतुःपञ्चाशदधिकशतं शेषं प्रज्ञोपाययुगलम्; एवं षट्पञ्चाशदधिकशतं कालचक्रम्; सप्तभागावशेषं कुलिकास्थानाधिदैवं देवतादेवीचक्रं कुलिकालक्षणमिति; पुनस्तस्मात् पूर्वदिन 151 1. क, ख. ग. पुस्तकेषु 'मध्यमाया' इति दृश्यते; किन्तु 'मध्यमा' इत्येव सम्यक् प्रतीयते; भो: Tsa dBu Mahi Lo (मध्यमानाडोवर्षे)। 2. भो. rnal hByor pa rNam Kyi ho (योगिनाम्) /