________________ पटले ]. चक्रवत्तिम्लेच्छयुद्ध-कालचक्रकुलतन्त्र-नाडीकुलोत्पत्ति-महोद्देशः 183 सन्धिद्वये, उपच्छन्दोहं जानुसन्धिद्वये, मेलापकद्वयं करसन्धिद्वये, उपमेलापकं पादसन्धिद्वये, श्मशानद्वयं करतलद्वये, उपश्मशानद्वयं पादतलद्वये, चतुर्महाश्मशानानि कराङ्गलिद्वये, उप(महा)श्मशानानि' चत्वारि पादाङ्गुलिद्वये इति क्षेत्रादिनि[103b]यमः / इति श्रीमूलतन्त्रानुसारिण्यां' लघुकालचक्रतन्त्रराजटोकायां' द्वादशसाहस्रिकायां विमलप्रभायां / समुदयसत्यादिमहोद्देशो द्वितीयः॥२॥ (3) चक्रवत्तिम्लेच्छयुद्ध-कालचक्रकुलतन्त्र-नाडीकुलोत्पत्ति-महोद्देशः इदानीं चक्रवत्तिम्लेच्छयुद्धं स्वदेहे उच्यते चक्रीत्यादिनाचक्री वजे स्वदेहे सुरवरपतयो द्वादशाङ्गा निरुद्धाः सम्यग्ज्ञानं हि कल्की गजतुरगरथाः किङ्करायंप्रमाणाः / प्रत्येकं रुद्रसंज्ञा प्रभवति हनूमान् श्रावकं प्राणिनां च पापं म्लेच्छेन्द्रदुष्टस्त्वकुशलमपि(पथि) यत् कृन्मतिर्दुःखदाता // 48 // . इह स्वदेहे मनुष्यदेहे यो बाह्य चक्री प्रथमपटले उक्तः, स देहे वजी चित्तवज्र इत्यर्थः / ये सुरवरपतयो द्वादश ईश्वरादयः, ते द्वादशाङ्गा निक्खा इति / यः कल्को सम्यग्ज्ञानं स्वदेहे हि तस्माद्धेतोः / ये बाह्य गजतुरगरथाः किङ्करा आर्य-अप्रमाणा- 15 श्चत्वारो देहे, ते यो बाह्य खः स देहे प्रत्येकज्ञानसंज्ञी; यो बाह्य हनुमान् स स्वदेहे श्रावकज्ञानमिति स्वदेहे महा चक्री सपरिवार कल्की च भवति / तथा यो बाह्य म्लेच्छेन्द्रबुष्टोऽसौ पापचित्तं शरीरे / यो बाह्ये कृन्मतिदुःखदाता अकुशलपथ इति देहे / अश्वत्थामा त्वविद्या दनुबलसकलं मारपक्षश्चतुर्धा संहारस्तस्य युद्धे भवभयनिधनं श्रीजयो मोक्षमार्गः / कैलाशे (से) धर्मदानं भवभयहरणं द्रव्यपूर्णा च पृथ्वी पुत्रो ब्रह्मासुरेशस्त्रिदशनरगुरोः पृष्ठतश्चाग्रतो यः // 49 // मञ्जुश्रीलॊकनाथस्त्रिभुवनविजयी श्रीरजो बोधिचित्तं पृष्ठे ब्रह्मादिवंशा विविधमहितलेऽनेकबुद्धा विशुद्धाः / 1. भो. Ne bahi Dur Khrod Chen po ( उपमहाश्मशानानि ) / 2. क. ख. मूल / 3. क. ख. लघुतन्त्रराजकालचक्रटीकायां / 4. क. ख. ति / 5. क. ख. प्रमाणा; भो. Tshad Med pa (अप्रमाणा)। 6. भोटे नास्ति / 7-8. भोटे नास्ति /