________________ पटले ]. समुदयसत्यादिमहोद्देशः 181 इदानीं नाडीसंज्ञा तीथिकसंज्ञाभिरुच्यते पिङ्गेत्यादिनापिङ्गाः सूक्ष्मास्त्विडाद्यास्त्रिविधपथगता रोहिणी हस्तिजिह्वा पूषा षष्ठी जयाऽगापि च वसु नवमेऽलम्बुषा श्रीकुहे च। दिक्संख्या शङ्खिनी या स्रवति नरपते बोधिचित्तं सुखान्ते एतत् श्रीनाडिचक्रं भवति बहुविध सन्धिभेदैरनेकैः // 45 // / पिङ्गाः सूक्ष्मास्त्विडाद्यास्तिस्रो नाड्य इडादयः / त्रिविधपथगता इति चन्द्रपथगता इडा, सूर्यपथगता पिङ्गला, राहुपथगता सुषुम्ना इति रोहिणी चतुर्थी, हस्तिजिह्वा पञ्चमी, पूषा षष्ठो, जयाऽगेति सप्तमी, अपि वसु अष्टमी, अलम्बुषा नवमी, कुहा दिक्संख्या शङ्खिनी या दशमी शङ्खिनी बोधिचित्तं स्रवति सुखान्ते / एतत् श्रीनाडिचक्र' भवति बहुविधं सन्धिभेदैरनेकैरिति / अत्र शरीरे सन्धिभेदाः षष्ट्युत्तरत्रिशतसंख्यास्तैः 10 सन्धिभेदैः षष्ट्युत्तरत्रिशतनाडीचक्रभेदा भवन्तीति / प्राणादिवायुप्रकृत्यभेदा अप्येवं ज्ञेया इति नाडीचक्रनियमः। इन्द्रेऽग्नौ.याम्यदैत्ये सवरुणपवने यक्षरुद्रे च मध्ये एषु स्थानेषु शक्तिभ्रंमति दिननिशं तत्स्वरूपं भजन्ती। तस्योचं कण्ठचक्रे ग्रहगणसहितं संस्थितं चर्क्षचक्र ब्रह्माण्डे श्रीललाटे स्वरपरिकरितः (') श्वेतबिन्दु स्रवन् वै // 46 // इदानीं तस्मिन्नेव नाडीचक्रे इन्द्राद्यधिष्ठानमुच्यते इन्द्र इत्यादिना इह इन्द्रदले प्राणशक्तिरिन्द्रस्वभावं भजति प्रहरमेकं यावत्; अग्निदले अग्निस्वभावम्, याम्यदले यमस्वभावम्,नैऋत्यदले नैऋत्यस्वभावम्, वारुण्यदले वरुणस्वभावम्, वायव्यदले वायुस्वभावम्, धनददले धनदस्वभावम्, ईशदले रुद्रस्वभावम् / 20 एवमेष्वष्टदलेषु तत्स्वभावं भज[102b]न्ती भ्रमति प्राणशक्तिरिति इन्द्रादिस्वभावनियमः। इदानीं कण्ठचक्रमुच्यते इह हत्कमलस्योवं सार्द्धद्वादशाङ्गलान्ते कण्ठचक्रे ग्रहगणसहितं संस्थितं चर्क चक्रम् / चत्वारि दण्डनक्षत्राणि, अष्टाविंशति प्रधाननक्षत्राणि; एभित्रिंशद्दलकम् / 25 चतुर्दण्डनक्षत्राणि त्यक्त्वा प्राणस्याष्टाविंशद्दलकेष्वहोरात्रेण संक्रमणं षष्टिदण्डेभ्यो भागेन लब्धं प्रत्येकदले सञ्चार इति / ब्रह्माण्डे श्रीललाटे स्वरपरिकरितं श्वेतबिन्दुं प्रवन् वै / तस्यापि कण्ठकमलस्योर्ध्वं सार्द्धद्वादशाङ्गुलान्ते ललाटकमले षोडशदले दलद्वयं त्यक्त्वा चतुर्दशदलेषु प्राणस्याहोरात्रेण सञ्चारः; षष्टिदण्डेभ्यश्चतुर्दशभागलब्धेन प्रत्येकदलत्यागः। 15 १.ग. श्रीनाभिचक्रं / 2-3. क. पुस्तके नास्ति / 4. ग. 0 दलेषु /