________________ विमलामायां [ अध्यात्मतत्र प्राण झवं वहति; अपामो नाभ्यधो वहति; समानः पूर्वदलेऽधिदेवो रोहिणीनाड्याम्; उदान आग्नेयदले हस्तिजिह्वानाड्याम्; व्यानो दक्षिणदले पिङ्गलानाडयाम्; नागो नैऋत्यदले पूषानाड्याम्; कूर्मो वारुण्यदले जयानाड्याम् ; कृकरो वायव्यदलेऽलम्बुषानाड्याम्; देवदत्त उत्तरदले इडानाड्याम्; धनञ्जय ईशदले कुहानाज्याम्; सुषुम्नायां प्राणः, दिक्संख्या सं(शं)खिनीया स्रवति बोधिचित्तं तस्यामपानोऽधिदेवता / इत्येवं नाडि(डो)चक्र दशविधपवनाः संस्थिताः कर्मभेदैः / एषां प्राणादीनां सर्वेषां वा द्वासप्ततिनाडीसहस्रेषु व्याप्तिः, किन्त्वष्टस्थानेषु जन्माष्टानामिति / सं(शं)हिन्यन्तं स्विडाधं स्वहदयकमलं नाभिचक्रं समस्तम, जन्मस्थानं समानादीनामिति हृच्चक्रनियमः। इदानीं प्राणादिकृत्यमुच्यते प्राण इत्यादिनाप्राणः प्राणं करोत्यर्कशशिपथगतस्त्वन्नपानं समस्तम् आपानो नेत्यधस्तात् सकलसमरसं नेति काये समानः [101b] / काये स्पन्दत्युदानो मुखकरचरणीतनाटयं करोति व्यानो व्याधिं करोति प्रकृतिगुणवशाद् गात्रभङ्गं तथैव / / 43 // इह शरीरे प्राणः प्राणं बलं करोति अर्कशशिपथगतः सन्अर्कपथः पिङ्गला, रसना वा; शशिपथ इडा, ललना वा; तस्याः पथगत इति / तु निपातनार्थम् / अन्नपानं समस्तम्, यत् रसं भक्षितमुदकादिपीतम्, तत् सकलमपानवायुरधो नेतीत्यागमः / नयति सकलं समरसं तुल्यरसं यावत् काये समानो नाम वायुः, सप्तधातुषु समरसं करोतीत्यर्थः / काये स्पन्दत्युदानो नाम वायुर्मुखकरचरणैर्गीतनाट्यं करोति / अत्र शरीरे स एवोदानो मुखेन गीतादिकं हास्यालापादिकं करोति, करचरणैर्नाट्यं करोति, गमनादिकं चेति / व्यानो व्याधि करोति प्रकृतिगुणवशादिति उदकप्रकृतिवशाद् गात्रभङ्ग तथैव करोति यथा व्याधिम् / नागोऽप्युद्गारमेव स्फुटकरचरणात् संकुचन् कूर्मवायुः क्रोधं क्षोभं समस्तं स कृकरपवनो जृम्भिकां देवदत्तः / कायं पञ्चत्वगन्तुं(गतं)त्यजति(न)नरपते वायुरेको धनञ्जः एवं प्राणादिसर्वे प्रकृतिगतगुणान् वायवो न त्यजन्ति // 44 // नागोऽप्युद्गारं करोत्येव स्फुटकरचरणात् संकुचन् कूर्मवायुः; स इति क्रोध क्षोभ समस्तं कृकरो वायुः करोति; जम्भिकां देवदत्तः करोति; कायं पञ्चत्वं गतं घनञ्जयो वायुनं त्यजति / नरपते इत्यामन्त्रणम् / वायुरेको धनञ्जय इति / एवमुक्त32 क्रमेण वायवः प्राणादयः सर्वे प्रकृतिगतगुणान् वायवो न त्यजन्ति, [102a] आकाशा दिप्रकृतिगुणानिति प्राणादिकृत्यनियमः /