________________ 176 विमलप्रभायो [ अध्यात्मतथा द्वीपाः। द्वादशारं जम्बूद्वीपम्, हस्तपादद्वादशखण्डेषु; मांसं रौद्रम्, कालजं क्रौश्चम्, किन्नरज बुक्कम्, कुशं मेदम्, सिताभं मूत्रम्, चन्द्र नाड्य इति मृदुधातवः / शैला इति वज्रपर्वताः पादकरनखाः। शीताद्रिः करास्थीनि, द्रोण उपवाह्वस्थीनि, मणिकरो बाह्वस्थीनि, निषढः(टः) पादास्थीनि, मन्द्रराद्रिः जङ्घास्थीनि, 5 नीलाभ ऊर्वस्थीनि इति कठिनधातवः सप्तशैलाः / अष्टमो मेरुः, शरीरकङ्कालं कटिमारम्य स्कन्धपर्यन्तमिति नियमः / द्रवमृदुकठिना धातवस्त्रिस्वभावाः / शिखिचलवलय[98b]मिति शिखिवलयं रक्तम्, वायुवलयं चर्माणि / राजन् इत्यामन्त्रणम् / केशाः सिद्धाः समस्तास्त्रिभुवन निलयऽनेकभेदैश्च सिद्धा इति / इह बाह्य लोकधातो त्रिधा सिद्धाः-खेचराः, भूचराः, T 302 10 पातालवासिनः / तेषु खेचराः शिरोरुहाः, भूचराः कक्षसम्भूताः, पातालवासिनो भग लिङ्गसम्भूताः / लोमानुक्तत्वात् सार्द्धत्रिकोटिलक्षणा इति स्वर्गादिनियमः। . . इदानीमग्नित्रयमुच्यते हृदित्यादिनाहृत्कण्ठे नाभिपद्मे पविरविशिखिनस्तत् स्फुरन्ति क्रमेण धन्वाकारे च वृत्ते त्वनुदिनहवने चाब्धिकोणे च कुण्डे / 15 तेषामूा परोऽग्निः स्फुरदमलकरो ज्ञानमूर्तिस्तमोऽन्ते यस्मिन् सूर्यो न विद्युत्पतिशशधरो न ग्रहास्तारकाद्याः / / 36 // इह शरीरे दक्षिणाग्निर्गार्हपत्यमावहनीयोऽग्नित्रयम् / यथासंख्यं हृत्पद्म धन्वाकारे पवि(:) विद्युदग्निः, कण्ठकमले वृत्ते सूर्याग्निर्गार्हपत्यम्, नाभौ चतुरस्र कुण्डे आहवनीयः क्रव्यादाग्निरिति स्फुरन्ति क्रमेण / अनुदिनहवने चाब्धिकोणे च कुण्ड 20 [इति] नियमः / तेषामूचे परोऽग्निः स्फुरदमलकरो ज्ञानमूर्तिस्तमोऽन्ते मुहकमले ललाटकमलेऽच्छिन्नः। यस्मिन् स्थाने सूर्यो न विद्युत्पतिशशधरो न प्रहास्तारकाद्याः, आदितः क्रव्यादाग्निरिति चतुर्थः सत्योऽग्निज्ञानमूर्तिरित्यग्नित्रयनियमः / [99a] इदानीं वारघटिकादय उच्यन्ते वारा इत्यादिनावारा हृत्पद्मपत्रे प्रकटितघटिका नाभिपद्म च षष्टिभूमध्येऽहः पदं वै मनुरपि नृप सम्भोगचक्रेऽपि चर्कम् / ऋक्षाणां नाभिपद्म पुनरपि घटिका योगिना वेदितव्या नाड्यः पाणीपलानि स्फुटसकलतनौ हस्तपादादिसन्धौ / / 37 // इह बाह्ये सप्तकाराः। अष्टमी कुलिका भुक्तिः शरीरे ते हकमलदलेष्वष्टष्वष्टौ भवन्ति-पूर्वदले आदित्यः, आग्नेय्यां सोमः, दक्षिणे मङ्गलः, नैऋत्ये बुधः, वारुण्ये