________________ 175 पटले] समुदयसत्यादिमहोद्देशः शशिकला इति / अत्र सूक्ष्मलोमबृहल्लोमप्रतिपत् द्वितीया, एवं त्वक् तृतीया चतुर्थी, रक्तं पञ्चमी षष्ठी, एवं मांसः सप्तमी अष्टमी, तथा नाड्यो नवमी दशमी, एवमस्थीनि एकादशी द्वादशी, तथा मज्जा त्रयोदशी चतुर्दशी, एवं शुक्रं पञ्चदशी षोडशी कला, धातवो द्विस्वभावा इति नियमः। इदानीं भूतयोनिरुच्यते लोमेत्यादिना___ इह लोकधातौ चतुर्षा भूतयोनिः-इह पृथिवीयोनिः स्थावरा बाह्य, अध्यात्मनि लोमानि; बाह्य वायुयोनिरण्डजाः, अध्यात्मनि यूकाः; बाह्य उदकयोनिः कृमिकुलादयः संस्वेदजाः, शरीरेऽपि कृमिकुलादीनि, बाह्य जरायुजाः शुक्रसम्भूता, अध्यात्मनि शुक्रमेव; बाह्य ऽनुक्तत्वादिति आकाशधातुः रसरूपा उपपादुकाः, अध्यात्मन्यण्डरूपा सूक्ष्मप्राणिनः इति भूतयोनिश्चतुर्धा च / . 10 ____नन्दाधङ्गुष्ठपर्वमि(इ)ति / इह बाह्य प्रतिपदादयः पञ्चपञ्चतिथयो नन्दादय उच्यन्ते / ते च शुक्लकृष्णपक्षभेदेन कनिष्ठाङ्गुष्ठादिना त्रित्रिपर्वस्वभावेन वामकराङ्गुलीपर्वा(णि) नन्दादयो भवन्ति, आकाशादिधातुभेदेन / दक्षिणकरामुलीपर्वा(णि) पृथिव्यादिभेदेन, वृद्धाङ्गुष्ठादिपर्वभेदेन' पञ्चदश; एवं पादाङ्गुलीपर्वा(णि) द्वि[98a]तीयमासतिथिभेदेन ज्ञेया(नि) इति / एवं प्रत्येकऋतुभेदेन वर्षे षट् परिवर्ता भवन्ति 15 षड्ऋतुभिरिति नन्दाद्यङ्गुष्ठपर्वनियमः / / कमलमपि शिरो नाभिपमञ्च शक्तिरिति सहजतनुर्भवतीति पूर्वोक्तविधिनेति शक्तिनियमः। इदानीं स्वर्गादय उच्यन्ते ब्रह्माण्ड[मि]त्यादिनाब्रह्माण्डं स्वर्गलोको वरकरचरणौ मर्त्यपाताललोको अब्धिद्वीपाश्च शैला द्रवमृदुकठिना धातवस्त्रिस्वभावाः / क्षाराब्धि मूत्रमेषां शिखिचलवलयं रक्तचर्माणि राजन् केशाः सिद्धाः समस्तास्त्रिभुवननिलयेऽनेकभेदैश्च सिद्धाः // 35 // इह शरीरे ब्रह्माण्डमुष्णीषात् कण्ठचक्रपर्यन्तं स्वर्गलोको भवति / वरकरौ / मर्त्यलोको भवति / चरणौ पाताललोको भवति / अब्धयश्च द्वीपाश्चाब्धिद्वोपाः। 25 शैलाश्च सप्त यथासंख्यं द्रवधातवः। शरीरे सप्त समुद्राः। तेषु क्षारसमुद्रो मूत्रम्, मद्यसमुद्रः प्रस्वेदः, उदकसमुद्रः स्तुकः दुम्धसमुद्रः स्त्रीणां दुग्धो नराणां श्लेष्मधातुः, दधिसमुद्रः शिरोमस्तिष्कम्, घृतसमुद्रो वसाः, मधुसमुद्रः शुक्रमिति / 1. ग. वृद्धाङ्गुष्ठपर्वादिभेदेन / 2. क. ख. चित्त; भो. Dus (ऋतु ) / 3. क. ख. श्र कः।