________________ 174 विमलप्रभायां [ अध्यात्मवज्रं शब्दश्च वायुं(यु) विडपि च घटिकाः श्वासनिःश्वासयुग्मं . युग्मैः संक्रान्तिरेका द्विगुणनवशतैः ज्योतिषा रन्ध्रभेदाः // 33 // इह शरीरे पृथिवी कठिनम्, अम्बु द्रवम् / अपि हविरुष्णत्वं च [97a] | वायुलघुत्वम्, यतः संकोचन प्रसारणं करोति / ' छिद्रं शून्यं दृढास्थि पृष्ठास्थिदण्डः कटि5 मारभ्य स्कन्धपर्यन्तं अमरगिरिवरो मेरुरिति / वृष्टिर्या बाह्य तत्र [सा अत्र] शरीरे अमृतं जिह्वालम्बिकाभ्यां स्तुकनावः / वजू शब्दो हृदये अन्त्राणां गजिर्या / वायु (चापः) इन्द्रधनुर्विडपि / घटिका या बाह्ये पष्टिपाणीपलात्मिका, सा देहे श्वासनिःश्वासयुग्मं निर्गमप्रवेशयुग्मं प्राणवायुरिति घटिका / एभियुग्मै द्विगुणनवशतैरित्यष्टा दशशतैः संक्रान्तिरेका भवति / बाह्ये संक्रान्तिः मासैस्त्रिशद्भिदिनैरिति अध्यात्मनि पञ्च 10 नाड्यः पञ्चमण्डलवाहिन्यः / ज्योतिष आदित्यादयो ग्रहास्ते रन्ध्रभेदा दश भवन्ति / अत्र गुदरन्ध्र चन्द्रः, मूत्ररन्ध्र रविः, शुक्ररन्ध्र कालाग्निः, मुखरन्ध्र राहुः, दक्षिणनेत्ररन्ध्र मङ्गलः, वामनेत्ररन्धं बुधः, दक्षिणघ्राणरन्ध्र बृहस्पतिः, वामघ्राणरन्ध्र शुक्रः, दक्षिणकर्णरन्ध्र मन्दः, वामकर्णरन्ध्र केतुरिति / एषां पुनर्मङ्गलादीनां षडिन्द्रियभेदो वक्ष्यमाणे पञ्चमपटले वक्तव्य इति पृथिव्यादिनियमः। . इदानीं नक्षत्रादिकमुच्यते नक्षत्रमित्यादिनानक्षत्रं दन्तपंक्तिस्त्वनुदिनघटिका सन्धिभेदाद् भवन्ति नाड्यो नद्यन्त्रमेघास्त्वपरशशिकला धातवो द्विस्वभावाः / .. लोमा यूका च शुक्रं कृमिकुलसहितं भूतयोनिश्चतुर्धा नन्दाद्यगुष्ठपर्वा(व)कमलमपि शिरो गुह्यपद्म च शक्तिः // 34 / / अभीचिना (अभिजिता) सहाष्टविंशन्नक्षत्राणि सप्तशलाकाचक्रभेदेन / चत्वारि दण्डनक्षत्राणि, चतुःकोणे शलाकानक्षत्राणाम्, एवं द्वात्रिंशदिति / दन्तानां क्रमोत्क्रमचारभेदेन चतुर्दश नक्षत्राण्यो(ण्य)चक्रे चतुर्दशाधश्चक्रे स्थितानि दन्तानां पंक्तिरूधिो भवति [97b] अर्द्धचक्रभेदत इति नक्षत्रं दन्तपंक्तिः / अत्र दिनघटिका सन्धिभेदा[व] भवन्ति इति प्रत्यहं षष्टिघटिका वर्षानुदिनैः श्वाससंख्या भवन्ति / ता घटिकाः षष्ट्युत्तर25 त्रिशतदिनानि भवन्ति / तानि च षष्ट्युत्तरत्रिशतसन्धयो भवन्तीति सन्धि[भेदाः] / नाड्यो नद्य इति इह लोकधातो बाह्य द्वासप्ततिसहस्रनद्यः समुद्रगामिन्यः, अध्यात्मनि द्वासप्ततिसहस्रनाड्यो रसवाहिन्यो भवन्तीति / अन्त्रमेघाः। अन्त्र इति अविभक्तिकं पदम्, अन्त्राणि मेघा भवन्तीति, रसस्रवणादिति गर्जनलक्षणात् / अपर शशिकला घातवो द्विस्वभावाः। अत्र कला द्विधा-लोमादिधातुविकारेणैका, शुक्रच्य90 वनधर्मेणेत्यपरा / अनयोः पुनर्या लोमादिधातुविकारेणावस्थिताः, ता अपि द्विधा अपरा 20 20 1. क. स. भवति / 2. क. सा. श्रुक० / 3. भो. gSu (चापः)। 4. ग. भेदेन /