________________ पटले]. समुदयसत्यादिमहोद्देशः वर्षेषु द्वादशेषु त्यजति दिनकरो धातुवृद्धि स्वदेहे नाडीच्छेदं प्रसूते भवति दिनदिनं युग्मसंख्याक्रमेण // 31 // इह शरीरे गर्भमासादेकादूर्ध्व प्रत्यहं नाडीशतद्वयं भवति; मासमध्ये त्रिशद्भिदिनैः षट्सहस्रसंख्या भवति; दादशमासावधेः पष्ट्युत्तरत्रिशतदिनसप्ततिसहस्रसंख्या भवति / नाडीनां षट्सहस्र दिनकरगुणितमिति द्वादशगुणितं गर्भमध्ये च वृद्धि]' कत्वा। 5 चकाराद् वाह्येऽपि द्वादशमासान्तं यावत् / गर्भाधानम[स्य] एकमासं वर्जयित्वा वर्षे पूर्ण सति वृद्धि त्यजति शशधरः, चकारात् त्रयोदशभिर्मासैरिति अर्कश्च वृद्धि करोतीति / तप्तश्चन्द्रशुक्रनाडी धातु संख्यापरिच्छित्तौ सत्यां धातुवृद्धि रजः करोति द्वादशवर्षान्(णि) यावदिति / चकारात् शुक्रं च धातुवृद्धि करोति / वर्षेषु द्वावशेषु त्यजति दिनकरो धातुद्धि स्वदेहे स्त्रीणां रजः सम्भवो(वां) यावदिति सूर्यवृद्धिः / पुंसां षोडशवर्षावधेः 10 शुक्रससम्भवो(वां) यावदिति / चकारः समुच्चये। एवं नाडी[96b]च्छेदोऽपि(मपि) प्रसते सति भवति प्रतिदिनं यग्मसंख्याक्रमेणेति वक्ष्यमाणे विस्तरेण वक्तव्यमिति नाडीधातुवृद्धिनियमः। इदानीमाकाशादितत्त्वान्युच्यन्ते श्री भूतानोत्यादिनाश्री भूतानीन्द्रियाणि प्रभवति दशकं पञ्च कर्मेन्द्रियाणि 15 तन्मात्राः पञ्च चोक्ताः सगुणमपि मनो बुद्धयहङ्कारदिव्या / तत्त्वान्येतानि देहे त्रिभुवननिलये भुक्तिरेषा विभोश्च पञ्चस्कन्धात्मकस्य त्रिविधभवगतस्यात्मकर्माणितस्य // 32 // इह शरीरे बालकस्य श्री भूतानि पञ्चेन्द्रियाणि पञ्चाकाशादीनि श्रोत्रादीन्येकत्र दशकं भवति / एवं पञ्च कर्मेन्द्रियाणि तन्मात्रा इति शब्दतन्त्रमात्रादय इति 20 पञ्च चोक्ताः / सगुणमपि मनः, सत्त्वरजस्तमोभिः सहितं मनः / एवं बुद्धिरपि अहङ्कारोऽपि दिव्या प्रकृतिरपीति / / तत्त्वान्येतानि चतुर्विंशतिः देहे त्रिभुवननिलये बाह्ये मुक्तिरेषा विभोश्च / किम्भूतस्य ? पञ्चस्कन्धात्मकस्य लोकसंवृत्या त्रिविधभवगतस्यात्मकर्माजितस्य भुक्तिर्भवति / चतुर्विशत्यात्मिका प्रकृतिः पुरुषस्य ग्राह[क]धर्मिणो Tou ग्राह्यधर्मिणी प्रकृतिः / स्वाभाविका पुनर्ग्राह्यधर्मरहिताऽपरा प्रभास्वराऽस्तीति प्रकृति- 25 पुरुषनियमः। इदानीं शरीरे पृथिव्यादीनां लक्षणमुच्यते पृथ्वीत्यादिनापृथ्वी काठिन्यमम्बु द्रवमपि हविरुष्णं च वायुलघुत्वं छिद्रं शून्यं दृढास्थि त्वमरगिरवरो वृष्टिरत्रामृतं स्यात् / 1. भो. hPhel ba (वृद्धि)। 2. भो. mNal bZun bahi ZLa ba (गर्भाधानस्य मासं)। 3. ग. आह / 4-5. भो, mChog gi Ran bSin (दिव्ययाः प्रकृतिः ) / 23