________________ 172 विमलप्रभायां : [ अध्यात्मज्ञानप्रकृतिभावभेदेन नीलाः। तथा मनेन्द्रियम् (मन इन्द्रियम्), शब्दः, दिव्येन्द्रियम्, मूत्रस्रावः, एते ज्ञानधातुप्रकृतयः काल(य) 'भेदेन नीलवर्णाः आकाशप्रकृतयो भावभेदेन हरिताः। अतो ज्ञानाकाशे च नीलो भवति च हरितः कायभावप्रभेदैरिति कायभाव, प्रकृतिवर्णनियमः। प्रज्ञोपायालिङ्गनमस्थिमांसादिधातूनामाह प्रज्ञेत्यादिप्रज्ञोपायोऽस्थिमांसं ससलिलरुधिरं पावको मूत्रमेव .:, वातो विट्शून्यशुक्र भवति वरतनी श्रीरजश्चित्तमेव / श्रोत्राच्छब्दादयोऽन्ये स्वजिनकुलवशाद् वाक्स्वरूपादयश्च एवं देव्यः सबुद्धा विषयविषयिणो मण्डले वेदितव्याः // 30 // इह शरीरे प्रज्ञा अस्थिधातुः, उपायो मांसधातुः, तयोः परस्परं संयोगः पृथिवीसंस्कारयोः, यत् कठिनतत्वं तत् पृथिवीधातुरिति ज्ञापकात् प्रज्ञोपायास्थिमांसमिति / एवं प्रज्ञोपायः ससलिलरुषिरमुदकधातुना सार्द्ध वेदनास्कन्धः। तथा पावक इति उष्णता मूत्रमिति संज्ञा, अनयो प्रज्ञोपायतः / ननु शुक्रधातुः संज्ञास्कन्धः, कथं मूत्र मित्युच्यते ? इह शरीरे या संज्ञा सा जातमात्रस्य बालस्य मूत्रस्रावतः, यन्महासुखज्ञानं 15 तत् षोडशवर्षावधेर्भवति शुक्रच्यवनधर्मतः। अतो मूत्रं संज्ञाधर्मः, शुक्रं ज्ञानधर्म इति विशेषात् मूत्रं संज्ञास्कन्ध इति / एवं* वातो विट् प्रज्ञोपायवायुधातु रूपस्कन्ध इति / शून्यमिति रजोधातुः, शुकमिति विज्ञानधातुः प्रज्ञोपाय इति / भवति वरतनौ श्रीरजो धर्मधातुविषयं बोधिचित्तमेव / एवं धोत्रात् शब्दादयोऽन्ये इति / शब्दः प्रज्ञा श्रोत्र उपायः, गन्धं प्रज्ञा घ्राणोपायः (घ्राण उपायः), रूपं प्रज्ञा चक्षुरुपायः, रसः प्रज्ञा 20 जिह्वोपायः, स्पर्शः प्रज्ञा काय उपायः, धर्मधातुः प्रज्ञा म[96a]न उपायः, विट्स्रावः प्रज्ञा गुद उपायः, गति प्रज्ञा पाद उपायः, आदानं प्रज्ञा कर उपायः, आलापः प्रज्ञा वागिन्द्रियमुपायः, मूत्रक्रिया प्रज्ञा भग उपायः, लिङ्ग वा शुक्रच्यवनप्रज्ञा शङ्खिनीन्द्रियमुपाय इति। - स्वजिनकुलवशात् वाक्स्वरूपादयश्च कर्मेन्द्रियाद्या इति / एवमुक्तक्रमेण देव्यः पृथिव्यादयः सबुद्घा वैरोचनादिभिः सार्द्ध विषयविषयिणो मण्डले वक्ष्यमाणे वक्तव्या इति परस्परं प्रज्ञोपायालिङ्गनविधिनियमः। इदानीं चन्द्रसूर्यशुक्ररजःकृत्यमुच्यते नाडोत्यादिनानाडीनां षट्सहस्रं दिनकरगुणितं गभंमध्ये च कृत्वा वर्षे पूर्णे च वृद्धि त्यजति शशधरोऽर्कश्च वृद्धि करोति / .. 1. भो. Lus ( काय ) / 2. क. ख. प्रज्ञोपाय इति / 3. क. पुस्तके नास्ति / 4. ग. सर्वबुद्धा। *+ख. पुस्तके नास्ति /