________________ पटले समुदयसत्यादिमहोदेशः कायाधारभेदेन षट्कुलान्युच्यन्ते नाभावित्यादिना इह शरीरे षड्धातुवशेन षट्चक्रेषु षट्कुलानि भवन्ति यथासंख्यम्-मातुः कुलानि त्रीणि, भर्तुः पितुः कुलानि च / नाभौ पृथिवीचक्रे चक्रकुल भवति, कण्ठे अग्निपर्दो रत्नकुल भवति, गुह्य ज्ञानकमले कतिकाकुलं भवति, मातुर्यथासंख्यं कायो(य) वाञ्चित्तश्च / एवं शिरसि तोयकमले कमलकुलं भवति; हृदये वायुकमले खङ्गकुलं 5 T300 भवति / तद्वदुष्णोषमध्ये आकाशधातुकमले वजकुलं भवति / भर्तुः कायवाञ्चित्तञ्च यथाक्रमं रजःशुक्रयोः कुल भवति / पृथिव्यादिधातूत्पन्नानां विकाराणां यथानुक्रमेणेति / वायुनाडीभेदेन तान्येवाह तानीत्यादि इह प्राणापानत्रिनाडिकाभेदतः त्रिनाडीसंज्ञाल [95a] क्षणानि भवन्ति-विड्नाडी चक्कुलमपाने, सूर्यनाडी रत्नकुलं प्राणे, शुक्रनाडी कतिकाकुलम् अपाने इति मातुस्त्रि- 10 कुलानि कार्यवाचित्तानि; तथा चन्द्रनाडी प्राणे कमलकुलम्, अपाने मूत्रनाडी खगकुलम्, प्राणे मध्ये राहुनाडी वज्रकुलमिति भर्तुः कायवाञ्चित्तानीति षट्कुलनियमः / काये भावप्रवेश-धातुवर्णा उच्यन्ते काय इत्यादिनाकाये भावप्रवेशः खमिव समरसो भावमध्ये च कायो ज्ञातव्यो योगयुक्तः प्रकृतिगुणवशाद् धातुवर्णादिभेदैः / 15 पीतः कृष्णश्च वर्णस्त्वरुण इति सितो भूमिवाताग्नितोये ज्ञानाकाशे च नीलो भवति च हरितः कायभावप्रभेदैः // 29 // इह शरीरे ग्राहग्राहकभेदो धातूनां परस्परं भवति। तत्र यो ग्राहको धातुः सामग्रीवशात् स कायसंज्ञो भवति; यो ग्राह्यः सामग्रीवशात् स भावसंज्ञो भवति / तेन ग्राह्यग्राहकयोः परस्परमेकत्वं समरसत्वम्, अतः काये भावप्रवेशः। 29 समिव समरसो भावमध्ये च कायो, ज्ञातव्यो योगयुक्तैः प्रकृतिगुणवशाद पातुवर्णाविभेदैरिति / अत्र प्रकृतयः पृथिव्यादिधातवः कायेन्द्रियादीनां गन्धादिविषयाणां चतुण्णां भवन्ति / अत्र कायभेदेन कायेन्द्रियम्, गन्धविषयम्, पाय्विन्द्रियम्, आलापः पृथिवीकायस्वभावतः' पीतवर्णाः भाववशात्, वायुप्रकृतितः कृष्णवर्णाः / एवं घ्राणेन्द्रियम्, स्पर्शः, वागिन्द्रियम्, विस्रावो वायुप्रकृतयः कायभेदेन 25 कृष्णवर्णाः; पृथिवी भावभेदेन पीताः; चक्षुरिन्द्रियम्, रसः, पाणीन्द्रियम्, गतिस्तेजः प्रकृतयः कायवशाद् रक्तवर्णा भवन्ति, भाववशादुदकप्रकृतयः सिता भवन्ति / एवं जिह्वन्द्रियम्, वर्णो रूपम् (वर्णरूपम्), पादेन्द्रियम्, आदानमुदकप्रकृतयः कायभेदेन सितवर्णा भवन्ति, अग्निप्रकृतिभाववशाद् रक्तवर्णा भव[95b]न्ति / भूमिवाताग्नितोये भूप्रकृतौ वातप्रकृती अग्निप्रकृतौ तोयप्रकृतौ वर्णो वेदितव्यः / एवं श्रोत्रेन्द्रियम्, 30 धर्मधातुविषयम्, भगेन्द्रियम्, शुक्रच्यवनम्, एते आकाशप्रकृतयः कायभेदेन हरितवर्णाः, 1. ग पृथिवीप्रकृतयः / 2-3, भो Kha Dog Gi gZugs (वर्णरूपं) /