________________ विमलप्रभायां [ अध्यात्मवाम वायुस्वभावः(वम्) / एवं पुनरूध्वं तेजोवायुस्वभावी, अधः पृथिवीतोयस्वभावी, पुनरधो वायुतेजःस्वभावी, पुनरूद्धे पृथ्वोतोयस्वभावौ। एवमनुलोमविलोमेनोधिश्चतुर्धातुस्वभावेन द्वात्रिंशद् दन्ता वेदितव्या। यदा वक्रदन्तास्तदा आकाशधातुः / एवं लोमकेशानीति धातुभेदात् ज्ञेयानि / __अन्य यल्लोमकान्तं भवति वरतनौ तत्' तदेव पञ्चधातो वेदितव्यम्, कायविवेक सार्द्धत्रिकोटिभेदं यावद् धातुविकाराः / रजःशुक्रवशाद् धातुविकारः, समुदयसत्यं कायविधै (वे)केनेति भगवतोक्तम् / इति श्रीमूलतन्त्रानुसारिण्यां लघुकालचक्रतन्त्रराजटीकायां द्वादशसाहसिकायां विमलप्रभायां कायवाञ्चित्तोत्पत्तिदुःख-मार्ग-समुदय-निरोधसत्यनिर्णयमहोद्देशः प्रथमः // 1 // (2) समुदयसत्यादिमहोद्देशः इदानीमाधाराधेयसमुदाय उच्यते गुह्य त्यादिनागुह्योष्णीषे च नाभौ सहजजिनतनुनिःस्वभावस्वभावा हृच्चक्रे धर्मकायो भवति हि नृप सम्भोगचक्रे जिनस्य / बिन्दौ निर्माणकायो भवति गुणवशाच्चाधिदेवक्रमेण हृच्चक्र कण्ठचक्र शिरसि च कमलं धर्मसम्भोगशुद्धम् // .27 / / इह शरीरे षट् चक्राण्याधारभूतानि, चत्वारः काया आधेयाः; तेषु सहजकायस्त्रिकमलेषु स्वभावास्वभावभे[94b]देन / अतो गुह्मकमले उष्णोषकमले नाभिकमले विशुद्धकायोऽधिदेवता निःस्वभावा, अकल्पनास्वभावा, प्रतिसेनोपमा / हवये धर्मकायः, कण्ठाब्जे सम्भोगकायोऽधिदेवता कायभेदन / बिन्दाविति शिरसोऽब्जे शुद्धचक्रे निर्माणकायोऽषिदेवता। कायभेदेन नाभौ निर्माणचक्रे निर्माणकायोऽधिदेवता इति कायभेदे नियमः / गुणवशादिति चक्राणां गुणः; ज्ञानाकाशभूमिगुणः सहजकायाधाराणाम्; वायुगुणो धर्मकायाधारस्य; तेजोगुणः सम्भोगकायाधारस्य; उदकगुणो निर्माणकायाधारस्येति आधाराधेयभावः। उक्तक्रमेण हृच्चक्र' कण्ठचक्र शिरसि च कमलं धर्मसम्भोगशुद्ध मिति। नाभौ कण्ठे च गुह्य शिरसि च हृदये तद्वदुष्णीषमध्ये मातुर्भर्तुः क्रमेण त्रिविधमपि भवेत् कायवाञ्चित्तवज्रम् / चक्र रत्नं खपद्म जलजमसिवरं षटकुलं वज्रयुक्तं तान्यूधिस्त्रिनाध्यस्त्रिविधपथगताश्चन्द्रसूर्याग्निभेदैः // 28 // 1-2. ग. तत्तदेवश्च पाती / 3. भो, dBen Par (विवेक) / 4. क. ख. मूल /