________________ पटले 1 कायवाञ्चित्तोत्पत्ति-चतुरायसत्यनिर्णय-महोद्देशः अथ अनन्तर कूर्मादयश्चत्वारः वायुधातोः कूर्मो भवति, तेजोधातोः कुकरः, उदकधातोदेवदत्तः, पृथ्वीधातोधनञ्जयः। षोडशवर्षान्ते आकाशधातोरानन्दवायुः, ज्ञानधातोः सहजानन्दवायुः [93b] / धातुवशाच्छरीरे हस्तादिसन्धौ चक्रादीन्युच्यन्ते उष्णीषमित्यादिनाउष्णीषः शून्यधातौ भवति सुरनृणां ज्ञानधातौ च गुह्य ... 5 हृत्पद्मं वायुधातौ प्रकटशिखिनि वै कण्ठचक्रं स्फुरद्धि / तोये भ्रूमध्यपद्मं वसुवसुदलकं नाभिचक्रं च भूम्यां षट्सन्धिः पादपाण्योमहिजलहुतभुग मारुतेषु त्रिसंख्या // 25 // .. अत्र आकाशातोरुष्णोषकमलं चक्रं वा भवति / दलसंख्या वक्ष्यमाणे वक्तव्या। सुरनणां ज्ञानधातोश्च गुह्यं भवति, गुह्यकमलमित्यर्थः। हृत्पनं वायुधातोर्भवति / 10 प्रकटशिखिनः कण्ठचक्र भवति / स्फुरत् (स्फुटम्'), हिनिश्चये, तोयधातौ भ्रूमध्यपनम् / वसुवसु चतुःषष्टिदलकं नाभिचक्र (पद्म२)भ मिधातौ भवति / षट्सन्धिरिति बहुवचने एकवचनम् / पादपाण्योमिपादे तिस्रो भूमिधातोः सत्त्वरजस्तमोगुणानां भेदात् भवन्ति / महोति हस्वो भपर्यायः। दक्षिणपादे तिस्रः उदकधातोर्गणत्रयभेदात इति; वामहस्ते तिस्रोऽग्निगुणत्रयभेदादिति; दक्षिणहस्ते तिस्रो वायुगुणत्रयभेदात् मार 15 तेषु त्रिसंख्येति / द्वादश चक्राणि वक्ष्यमाणे वक्तव्यानीति अष्टादशचक्रनियमः / इदानीं धातुवशादगुल्यो(ल्यु)त्पादमाह भू मोत्यादिनाभूम्यादौ पञ्चधातौ त्रिविधगुणवशात् पादपाण्योर्बभूवुः अगुल्योऽङ्गुष्ठकाद्यास्त्रिगुणितदशकाः पर्वरूपाः समस्ताः / संग्राह्यास्ता नखान्ताः पुनरपि दशनान्ये च तत्त्वप्रभेदै . 20 रन्यद् यल्लोमकान्तं भवति वरतनौ तत् तदेवञ्च धातौ // 26 // इह हस्तपादयोरङ्गुष्ठकाद्याः कनिष्ठान्ताः; वामे दक्षिणे च पञ्चधातुगुणत्रयस्वभावेन त्रिपर्वात्मिकाः। ततः[94a]पृथ्वीधातुवशादगुष्ठको भवति, पृथिवीधातुगुणत्रयवशाङ्गुष्ठपर्वाः त्रयः / एवं तोयधातुस्वभावेन तर्जनी, तथा तेजोधातुस्वभावेन मध्यमा; एवं वायुधातुस्वाभावेनानामिका, आकाशधातुस्वभावेन कनिष्ठिका / यथा वामहस्ते तथा 25 दक्षिणेऽपि / एवं पादयोविज्ञेया इति / हस्तद्वये पादद्वयेऽपि त्रिगुणितदशकास्त्रिशत् पर्वरूपाः समस्ता संग्राह्यास्ता नखान्ताः। दशनान्युच्यन्ते-अत्र यदि प्रथम बालस्योर्ध्व दन्तद्वयं भवति, तदा दक्षिणदन्तभूमिस्वभावं भवति, वाम तोयस्वभावम् / अथाधो भवति, तदा दक्षिणवह्निस्वभावम्, 1. भो. gSal Bar (स्फुट)। 2. भो. Pad Ma (पप)।