________________ मिलामायां. [ अध्यात्मविज्ञानं चन्द्रसूर्यावपि कमलगताः शुद्धकायः स गर्ने धातुस्कन्धोद्भवो यो भवति दशविधो धर्मकायो जिनस्य / तस्मात् सम्भोगकायो भवति गुणवशाच्छोत्रशब्दादिजाते तस्मात् केशादिजाते प्रसवनसमयश्चात्र निर्माणकायः // 15 // अत्र गर्भे तावद् विज्ञानमालयविज्ञानं सत् सौख्यं ज्ञानमिति / चनासूर्यो शुक्ररजसी अपि कमलगता मातृकमलगतास्त्रयः एकीभूता गर्भनिष्पत्तये; शुखकायः स गर्ने भगवत(ता) उच्यते. मात्रापित्रा(त्र्या) लयविज्ञानैकसखावस्थातः। घातस्कन्धानामदभवो यो क्शविषः, स धर्मकायो जिनस्य बोधिचित्तवज्रस्य / अतोऽध्यात्मश्रोत्रादीनामिन्द्रियाणां शब्दादीनां विषयाणां जाते सति गुणवशाद दिवसवशात् सम्भोगकायो भवति / तस्मात् केशाविजाते आदितः लोमविट्मूत्रनिष्पत्तिः। प्रसवनसमयो योनेरुत्पादो निर्माणकाय' उच्यते गर्भ। जाते श्वासोद्भवो यः भवति निर्गुणः शुद्धकायः स एव / तस्मात् दन्तोद्भवो योऽस्फुटमपि वचनं धर्मकायस्तथैव / तस्मात् पातो द्विजानां प्रसवति नृप सम्भोगकायो जिनस्य दन्तेभ्यः मृत्युसीम्ने भवति जिनपतेर्बाह्यनिर्माणकायः // 16 // ततो बाह्ये कायचतुष्टयं(ये) जाते सति श्वासस्य प्रथम उद्भवो यो मध्यनाड्यां' भवति, स निर्गुणो वाग्वज्रविषये संशुद्धकायः, स एव सपादषट्पञ्चाशत्श्वाससमूहं यावत् तावत् शुद्धकायो मध्यमाप्रवाहतः / तस्मात् प्राणसञ्चारवशाद् दन्तोदभवो योऽस्फुटमपि वचनं यत् तत् संज्ञालक्षणम्, स वाग्वज्रविषये धर्मकायः / तस्मात् पातो द्विजानां दन्तानां पातो भवति, यावत् सम्भोगकायोऽष्टवर्षपर्यन्तं परिस्फुटवचनात् / दन्तेभ्यः पतितेभ्योमृत्युपर्यन्तं निर्माणकायो बाह्ये भवति / इह गर्भे काय[90b]भेदेन चतुर्विधः कायभेदः / बाह्ये प्राण[सं]चारभेदेन चतुर्धा कायभेदो ज्ञानं विज्ञानं च . देहे (अन्तः)२ बाह्येऽपि कायप्राणयोः सहायः / अत्र कायभेदः शुक्रसम्बन्धी, वाग्भंदो रक्तसम्बन्धी; एवं व्याप्यव्यापकसम्बन्धेन चित्तभेदेन चतुर्विधः कायभेदः / जाग्रदादिलक्षणेन ज्ञानभेदे25 नापि चतुर्विधः कायभेदः, आनन्दादिना चतुर्विधस्वभावेनेति देहे बाह्य सहजादिकायोत्पादनियमः। कायवाञ्चित्तज्ञानोत्पत्तिमाह गर्भ इत्यादिनागर्भ श्रीकायवज्रं प्रथममिह भवेद् वाक्स्वरूपं प्रसूते चितं दन्तोद्भवे वे पुनरपि पतनादुद्भवे ज्ञानवज्रम् / ज्ञानं विज्ञानमिदं रविशशिसहितं ज्ञानवज्रादिसर्व गर्भे रूढं क्रमेण प्रभवति बलवत् कायवज्रादिना च // 17 // 1. क. ख. निर्माण / 2. भो. Nai (अन्तः) /