________________ पटले] कायवाञ्चित्तोत्पत्ति-चतुरार्यसत्यनिर्णय-महोद्देशः 165 इह मातृगर्भे ज्ञानं सहजानन्दं विज्ञानमिश्रितमालयविज्ञानम्, रविशशिसहितं रजःशुक्राभ्यां सहितं ज्ञानवजादिसर्व सहजानन्दादिकं भवति / गर्भे रुढं क्रमेण प्रभवति बलवत् कायवजादिना च / अत्र प्रथम' गर्भे श्रीकायवज्रं भवति प्रसूत्यवधिं यावत्, कायावयवनिष्पत्तिरित्यर्थः। ततः प्रसूते वागवज्रं प्राणसंचारः प्राणोत्पत्तिः। ततश्चित्त संज्ञाग्राहक द्वात्रिंशद्दन्तोभवे सति भवति। वे इत्येकान्तनिश्चितमित्यर्थः। 5 7298 पुनरपि दन्तपतनात द्वात्रिंशद्दन्तोद्भवे सति स्त्रीणां द्वादशवर्षावधि ज्ञानवजू शुक्रच्युत्यवस्थालक्षणं सहजानन्दलक्षणं५ नराणां षोडशवर्षावधेर्वेदितव्यमिति कायवाचित्तज्ञाननिष्पत्तिकथनम् / आधाराधेयसम्बन्धमाह पृथ्वोत्यादिपृथ्वीगर्भो हुताशो भवति च (न) धरणीमारुतौ शून्यगर्भो 10 वायोभूमेश्च गर्भो भवति हि सलिलं निःस्वभावःस्वभावम् / भूमेराधार अम्बु ज्वलनमपि जलस्यानिलः पावकस्य वायोः शून्यं नरेन्द्र प्रभवति हि तथाधार आधेयभूतः // 18 // [91a] इह पृथ्व्या गर्भो हुताशोऽग्निर्भवति, न तत्कुली, पृथ्वीगुणस्वभावाभावात् / आकाशगर्भे शून्यमध्ये तिष्ठतो धरणीमारुतौ न तत्कुलजातो, आकाशगुणाभावात् / 15 एवं वायुगर्भ (6) भ मेश्च गर्भ (:) सलिलं भवति; तदेव वायुगर्भ निःस्वभावानुरूपेणावस्थितम्'; यत्र यत्र वायुः संसरति, तत्र तत्र तेन साद्धं व्रजति / यद् भूमिमध्ये व्यवस्थित तत् स्वभावं द्रवरूपं खन्यमानं दृश्यते भूम्यमिति / अत्र पुनः सर्वेषां पृथ्व्यादीनामाकाशमाधारः, पृथिव्यादयो भूता आधेयाः। अत्र यथाक्रममाधाराधेयौ भवतः। भूमेराधारमम्बु भूमिमण्डलस्य बाह्य यथा जलमण्डलमाधरः तथा शरीरेऽपि / ज्वलनमप्य- 20 ग्निमण्डलं जलस्येति जलमण्डलस्याधारः / अनिल इति वायुपण्डलम् / पावकस्याग्निमण्डलस्य वायुरिति वायुमण्डलस्स्य शून्यमाकाशमाधारः / एवं सर्वेषां भूतानां पृथिव्यादीनां शून्यमाधारो भवति / / - समूहाधाराधेयमाह स्कन्ध इत्यादि स्कन्धाधारो हि भौतो भवति वरतनौ भूतवृन्दस्य नाड्यो नाडीनां प्राणवायुर्भवति दशविधश्चेतना प्राणवायोः / तच्चित्तं द्विस्वभावं भवति गुणवशात् सस्वभावास्वभावं भर्ताधारस्तयोश्च त्रिभुवननमितोऽनाहतः सर्वगो यः // 19 // 12. ख. प्रथमगर्ने। 3-4. क. ततश्चित्तसंज्ञाग्राहकं / 5. क. सहजानन्दक्षणं / 6. भो. Ma yin (न)। 7. क. ख. गर्भो। 8. भो. Ma yin (न)। 9. क. ख. निःस्वभावमन्दरूपेण; ग. * मण्डरूपेण / . 22