________________ वटले ] कायवाकचित्तोत्पत्ति-चतुरार्यसत्यनिर्णय-महोद्देशः 163 जगविवं मोहितं मायया च / इह संसारे मायया मोहितमहङ्कारममकारात्मिकया नरकप्रेततिर्यग्गतौ दुःखं गृह्णातीति / / मार्गसत्यमाह संसार इत्यादिसंसारे मानुषत्वं क्वचिदपि तु भवेद् धर्मबुद्धिः कदाचित् तस्माद् बुद्धेऽनुरागो भवति शुभवशादादियाने प्रवृत्तिः / तस्माद् श्रीवज्रयाने क्वचिदखिलमतिर्वर्त्तते भावनायां तस्यां बुद्धत्वमिष्टं परमसुखपदेऽहो प्रवेशोऽतिकष्टः (कष्टम्) // 13 // [89b] इह षट्गत्यात्मके संसारे मानुषत्व क्वचिदपि तु भवेत्, ततो धर्मबुद्धिः कदाचिद् भवति नराणां तीथिकदानादिधर्मेषु / तस्माद् बुद्धेऽनुरागः कदाचित् शुभवशाद . भवति, दानाद्यनुरागोऽपि / ततोऽपि शुभवशादादियाने प्रवृत्तिर्भवति श्रावकप्रत्येक- 10 बुद्धयाने / तस्मात् श्रीवजयाने प्रवृत्तिः, वज्रमभेद्यमच्छेद्यं महदिति / तदेव यानं मन्त्रनयं पारमितानयं फलहेत्वात्मकम्, एकलोलीभूतम्, तस्मिन् प्रवृत्तिर्वज्रयाने प्रवृत्तिः / ततः क्वचिदखिलमतित्तते भावनायाम्, कस्याञ्चित्' सालम्बनशून्यतानिरालम्बनकरुणात्मिकायां पुण्यज्ञानवशेन, तस्यां भावनायां बुद्धत्वमिष्टं भवति / एवं परमसुखपदेऽहो प्रवेशोऽतिकष्टः (ष्टम्) दूराद् दूरतरः संसारिणां संसारसुखाभिलाषिणामिति। 15 समुदयसत्यमाह गर्भ इत्यादिनागर्भे संशुद्धकायः प्रसवनसमयाद् दन्तभावोऽर्थ (भावे च) धर्मः दन्तानां वै प्रपातः प्रभवति नृप सम्भोगकायो जिनस्य / तस्मान्निर्माणकायः प्रकटितनियतो मृत्युसीम्नो नराणां गर्भे बाहये चतुर्धा भवति पुनरसौ ज्ञानविज्ञानभेदात् // 14 // 20 - इह प्रथमं लोकसंवृत्या विशुद्धकायादिकं गर्भजातस्य शरीरे संदृश्यते; पश्चाद् तद् वै धर्मण बुद्धस्य भगवतः सुविशुद्धकायादिकं योगिभिर्वेदितव्यम् / अत्र मातृगर्भ यावत् तिष्ठति तावत् पञ्चाभिज्ञो संशुद्ध कायो भवति शरीरिणः / ततः प्रसवनसमयमारभ्य यावद् दन्तोत्थानं तावद् धर्मकायो भवति / ततो दन्तोत्थानाद् यावद् वन्तप्रपातो भवति तावत् सम्भोगकायो जिनस्य बोधिचित्तवज्रस्य / नपेत्यामन्त्रणम्। तस्माद दन्तपाता- 25 निर्माणकायः प्रकटितो नियतो मृत्युसीम्नो नराणां गर्भजानामिति / गर्भ बाह्ये चतुर्षा भवति, पुनरसौ कायसमूहः, इह ज्ञानभेदात् गर्भे षड्विज्ञानभेदात् बाह्ये, ज्ञानविज्ञानभेवाविति / [90a] 1. क. ख. कस्याचित्ते। 2, भो, So Ni sKyes Pa Dag Kyai (दन्तोत्थानं ) /