SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 162 विमलप्रभायां [अध्यात्ममांसान्याश्रित्य चास्थोनि खरसशिखिनः पञ्चमे सन्धयश्च पष्ठे मासे च मांसं भवति च रुधिरं वेदना सौख्यदुःखम् // 10 // हस्तौ पादौ च कण्ठो भवति समशिरः कूर्मः, अपरा सूक्ष्मनाड्यः करचरणमुखे कण्ठदेशे करचरणानां षट्सन्धिषु मुखकण्ठे सहजसम्भोगनाड्योऽतिसूक्ष्माश्चतुर्थे मासे पूर्ण सति भवन्तीति कूर्मावस्था / पञ्चमे मासे वाराह्ये भाव मांसान्याश्रित्य चास्थीनि खरसहुतभु गिति षट्युत्तरत्रिशतान्यस्थीनि सन्धयश्च तावत् यः षष्ठे मासे च चकारात् वाराह्ये भावे मांसं रुधिरं भवति, वेदना भवति, सुखदुःखं च वेत्ति, अभिज्ञा1297 बलेन पूर्वनिवासानुस्मृति च, स्वचित्तेन वैराग्यं करोति, भवदुःखं निन्दयति, बुद्धमार्ग प्रशंसयति। भ्रकेशा रन्ध्ररोमाण्यपि मुनिवरे नाडिकाः सावशेषा मासादूध्वं हि जाताः प्रतिदिनसमये शून्यशून्याक्षिसंख्या / मर्माण्यस्थीनि मज्जा भवति च रसना मूत्रगूथेऽष्टमे च . रन्ध्राख्ये घोरदुःखं प्रसवनसमये योनिना पीडितस्य // 11 // ततो भ्रूकेशा रोमरन्ध्राणि चक्षुरादीनि / अपि च वाराह्ये भावे मुनिवरे सप्तमे 15 मासे पूर्ण सति सम्पूर्णान्यायतनानि भवन्ति / इह गर्भमासादूचं प्रतिदिनसमये शून्य शन्याक्षिसंख्या द्विशतसंख्याः प्रत्यहं नाडिका भवन्ति / ततः षष्ट्यत्तरत्रिशतमर्माणि अस्थीनि, तन्मध्ये मज्जा भवति रसना जिह्वा जिह्वन्द्रियोत्पादाय, [89a] पूर्वचक्षुरादयो भवन्ति कठिनाः। ततो रसनोत्पादकालादिह मूत्रगूथे चाष्टमे मासे भवतः / वाराह्ये भावे ततो रन्नाख्ये नवमे मासे पूर्ण सति क्वचिद् दशमे, एकादशे द्वादशे वा 20 वाराह्यभावावसाने घोरदुःखं भवति प्रसवनकाले योनिना पीडितस्य नारसिंहे भावे गर्भजातकस्येति गर्भोत्पत्तिनियमः। चतुरार्यसत्येषु संसारिणां दुःखसत्यमाह गर्भ इत्यादिगर्भे गर्भस्थदुःखं प्रसवनसमये बालभावेऽपि दुःखं कौमारे यौवने श्री (स्त्री)'धनविभवहतं क्लेशदुःखं महद् यत् / 25 वृद्धत्वे मृत्युदुःखं पुनरपि भयदं षड्गतौ रोरवाद्यं दुःखाद् गृह्णाति दुःखं सकलजगदिदं मोहितं मायया च / / 12 / / इह संसारिणां प्रथमं तावत् गर्ने स्थितानां गर्भस्थदुःखं कुम्भीपाकसदृशं भवति प्रसवनसमये मुद्गरयन्त्रपीडितवत्, बालभावेऽपि विष्ठाभक्षणे शूकरवत्, कौमारे यौवने च श्री(स्त्री) 'वियोगदुःखं धनविभवहतं दुःखम्, तदभावात् / वृद्धत्वेऽपि जरामरणही दुःखम्, पुनरपि मरणान्ते षड्गतो भयदं रौरवाचम् | आदितः प्रेततियंगगतौ रौद्रं दुःखं भवति पापवशाद् दशा(श)कुशल परित्यागात् / एवं दुःखाद गृह्णाति दुःखं सकल 1. भो. Bud Med (स्त्री) / 2. भो aGe ba bCu (दशकुशल)। .
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy