________________ पटले ] कायवाञ्चित्तोत्पत्ति-चतुरायंसत्यनिर्णय-महोद्देशः 1 रक्तं बीजं प्ररोहत्यमृतरसगतं गर्भमध्येकमासे पश्चाद् बीजाकुरस्य सुहृदि दशविधा नाडिकात्यन्तसूक्ष्मा / नाभौ [88a] चाष्टाष्ट कान्याः करचरणमुखेषुव॑तः सर्म्यमाणा मासे पूर्ण द्वितीये करचरणमुखोद्देशनं किञ्चिदत्र // 9 // बामन्ये भावे बालभावो भवति पूर्वोक्तः, द्विनृपति द्वात्रिंद्दशनान्युभवं यान्ति 5 राम्ये, परशुराम्ये भावे' पतन्ति / स्फुटमपि कपटं कारयेविति स एव बोधिचित्तविष्णुः कार्ये भावे मायां कारयेत्, बौद्ध भावे शान्ति करोति / सत्त्वानां व्रतमपि नियमं याति मृत्युं च काल्क्ये / काल्क्ये भावे पूर्वोक्तविधिना मरणं यातीति दशावतारः / इह वाक्ये यन्मत्स्यादिकं पुराणं रचितं दुष्टब्रह्मऋषिभिस्तद् बालानां वञ्चनाय नरकावाप्तिहेतुकमिति वक्ष्यमाणायां परमाक्षरज्ञानसिद्धौ विस्तरेण वक्तव्यम् / . 10 मातृगर्भस्थयोः शुक्ररजसोविकाराः गर्भाधानमारभ्य प्रसूतिपर्यन्ता उच्यन्ते शुक्र इत्यादिना इह शरीरे षट् कोषा जातकस्य भवन्ति-शुक्रे मज्जा भवति, अस्थीनि भवन्ति, नाड्यश्च स्नायवो भवन्ति, रजसि चर्मरक्तं च भवति, मांसं च भवति, एकस्माद् रक्ताद् रक्तबीजप्ररोहना(णा)दिति / ... अत्र गर्भ मासमेकं यावद् रक्तं बीजं प्ररोहति पञ्चामृतरसगतम्, पश्चात् बोजाङकुरस्येति, ततो मासादूर्ध्वं बोधिचित्तस्याङकुरीभूतस्य हृदयमध्यस्थाने वशविषा नाड्यः प्राणादिवाय्वाधारा भवन्ति; ताश्चात्यन्तसूक्ष्मा बालप्रमाणा; नाभी नाभिप्रदेशेष्टाष्टाकाश्चतुःषष्टिदण्डवाहिन्यो भवन्ति; अतिसूक्ष्मा अनुक्काऽपि द्वादशराशिसंक्रान्तिवशाच्चतुःषष्टीनामाधारभूता द्वादश ताः नाड्यो भवन्ति; तथात्यन्त- 20 सूक्ष्मास्ताः सर्वाः पूर्वोक्ता नाभिनाड्यः करचरणमुखस्थानकरणाय ऊर्ध्वतः सम्रमाणाः करचरणमुखस्थानेषु, ततः सर्म्यमाणप्रभावात् / द्वितीये मासे पूणे सति मुखकरचरणोद्देशनं किञ्चिदत्र इह प्राङ्मत्स्यावस्थादिने गते स[88b]ति कूर्मावस्थायां मुखकरचरण'. स्थानेषु पञ्च स्फोटका भवन्ति / हस्तौ पादौ च कण्ठो भवति समशिरः पूर्णमासे तृतीये 25 सूक्ष्मा मासे चतुर्थे करचरणमुखे नाडिका कण्ठदेशे / 15 1. ग. 'पुनराम्ये भावे' इत्यधिकः पाठः / 2. भोटानुवादानुरोधेन 'परशुराम्ये द्विनृपति द्वात्रिंशद्दिनानि उद्भवं यान्ति, राम्ये पतन्तीति क्रमः / 3. क. नियतं / 4. क. ख. जातस्य / ५.क. ख. कस्मात् / 6-7. ख. तनायो / 8. भो. gDon Dan rkan pa Dan Lag pa (मुखचरणकर)।