________________ विमलप्रभायां 10 160 [अध्यात्मअध्यात्मचित्तवज्रवरविष्णोर्दशावस्था उच्यन्ते गुह्येत्यादिनागुह्याब्जे रक्तमध्ये पतितमपि यदा बोधिबोज सजीवं मत्स्यः कर्मो वराहो भवति नरहरिमिनो रामरामौ / कृष्णो बुद्धो नरेन्द्रो भवति दशविधा(:)चाप्यवस्था दशेता गर्भे तिस्रस्तथैका प्रसवनसमये बालकालेऽपि च द्वे // 6 // [87b] कौमारे यौवनेऽन्या प्रभवति विपुलैका च सम्यक् तथैका वृद्धत्वेऽप्येकशान्ता भवन(ति) निधनता चान्तिमा गर्भजानाम् / मत्स्याकारस्तु मात्स्ये भवति कतिदिनं कूर्मभावश्च कौऱ्या वाराह्ये तस्य सूर्यायतनमपि भवेन्नारसिंहे प्रसूतिः // 7 // . इह गुह्याब्जे रक्तमध्ये पतितमपि यदा बोषिबीजमिति शुक्र सजीवमालय- . विज्ञानसहितं गुह्याब्जे पतितं यदा, तदा दशावस्थालक्षणं भवति / तेषु गर्भमध्ये मत्स्यकूर्मवराहावस्थास्तिस्रो भवन्ति; तथैका प्रसवनकाले नरसिंहावस्था; बालकालेऽपि च द्वे, दन्तोत्थानाद् वामनावस्था, दन्तोत्थानाद् दन्तपातं यावत् परशुरामावस्था / ___कौमारे यौवनेऽन्या इति दन्तपातात् षोडशवर्षावधेः प्रथमविपुला रामावस्था, 15 तथा अपरा विपुला षोडशवर्षात् पलितोत्पत्तिं यावत् कृष्णावस्था, पलितोत्पत्तेः मरण दिवसं यावद् बुद्धावस्था', मरणदिने सर्वभूतस्यैकलोलीभूतत्वाच्छरीरे कल्क्यवस्था भवति / वृद्धत्वेऽप्येकशान्ता भवन(ति) निधनता चान्तिमा गर्भजानामिति दशावस्थानियमः। अध्यात्मनि चित्तवज्रधरविष्णोर्दशावस्थाकृत्यमुच्यते मत्स्येत्यादिना__ इह मात्स्ये भावे मत्स्याकारो भवति बोधिचित्तवज्रो विष्णुः कतिदिनं ऋतुदिनं यावत् ततः कौर्पा भावे कूर्मभावो भवति, चकारादपरऋतुदिनं यावत्; वाराह्ये भावे बोधिचित्तविष्णोः सूर्यायतनं द्वादशायतनोद्भवो भवति, तृतीयऋतुदिनं यावत्; एवं सप्तमासाज्जातदिनं' यावत् नारसिंहे भावे प्रसूतिर्भवति, कराभ्यां योनिविदारणात् / वामन्ये बालभावो द्विनृपतिदशनान्युद्भवं यान्ति राम्ये भूयो राम्ये पतन्ति स्फुटमपि कपट कारयेत् सैव कार्ये / बौद्धे शान्ति करोति व्रतमपि नियम* याति मृत्यु च काल्क्ये शुक्रे मज्जास्थिनाडी भवति रजसि वै चर्मरक्तं च मांसम् // 8 // 20 3. ग. वज्रघरविष्णुः / १.ग. बौद्धा। 2. भो. Srid pa (भवति)। 4. ग. सप्तम / *क. नियतं /