SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ कायवाकचित्तोत्पत्ति-चतुरार्यसत्यनिर्णय-महोद्देशः योगिनेति / इहाध्यात्मपटले अस्य वृत्तस्य संक्षेपविवरणं वक्ष्यमाणे ज्ञानपटले परमाक्षरज्ञानसिद्धी विस्तरेण वक्तव्यमिति शरीरोत्पत्तये कार्यकारणसामग्रीनियमः / गर्भाधानादिकमाह बीजमित्यादिनाबीजं धत्ते धरित्री कमलगतमतो रोहयत्यम्बु पश्चात् तेजो बोधं करोति ग्रसति रसरसं मारुतो वृद्धिमस्य / वृद्धेः खं चावकाशं ददति नरपते कालतः सिद्धिरेवं दिव्याः कुर्वन्त्यवस्थाः प्रसवनसमये बालकादौ च काले // 4 // इह द्वीन्द्रियसंयोगाद् यच्च्युतं भगरक्तं गुह्यकमले तद् बीजमित्युच्यते / तद् बोज पत्ते परित्री, गुह्यकमले यः पृथ्वीधातुः स इत्यर्थः / कमलगतमिति गुह्यकमलगतम्, अतो गुह्यकमलाद् रोहयत्यम्बु पश्चात् तेजो बोधं करोतीति, अस्य बीजस्य 10 अम्बुना प्ररोहितस्य' तेजः प्रबोधं करोति / प्रसति रसरसमिति षड्रसं मातृभक्षितं पीतञ्च यत् तद् असति रसरसं तेजः / मारुतो वृद्धिमस्य बीजस्य करोति / वृद्धः सकाशात् खं शून्यमवकाशं वदाति / नर[87a]पते इत्यामन्त्रणम् / कालतः सिद्धिरेवम् / एवमनेन क्रमेण मत्स्यादेः सिद्धिर्गर्भनिष्पत्तिर्भवति / दिव्याः कुर्वन्त्यवस्था इति दिव्या धूमादयो दशावस्थास्ताः कुर्वन्ति / गर्भबालकौमारादिका दशावस्थाः, प्रसवनसमपे 15 बालकावौ च काल इति गर्भाधाननियमः / बीजस्य स्वधातुकृत्यमाह बीजस्येत्यादिबीजस्य क्षमा करोति स्फुटगुरुघनतां तोयमेव द्रवत्वं तेजः पाकं करोति प्रवरदशविधो मारुतो वृद्धिमस्य / वृद्धभूयोऽवकाशं ददति हि गगनं कालतः सृष्टिरेवनानाभावैरनेकैः सतनुरवमनः शक्तयः स्फारयन्ति // 5 // इह या बोजस्य शुक्ररक्तस्य मा सा गुह्यकमलगतान् षड् रसान् भक्षयित्वा स्फुटं गुरुघनतां करोति, शरीरस्योत्पत्तये तोयमेवं द्रवत्वं करोति, तेजः पाकं करोति भक्षितानां रसानाम्, प्रवरक्शविधो मारुतः प्राणादिवृद्धि करोति, अस्य बीजस्य शरोराय, वृद्धभूयोऽवकाशं वदति हि गगनम्, कालतः सृष्टिरेवम्, पूर्वोक्तविधानतः। 25 नानाभावैरनेकैः सतत(न)रवमन' इति कायवाञ्चित्तानि शक्तयो धूमादयः कायवाक्चित्तर्मिण्यः स्फारयन्तीति बीजधातुकृत्यकथनम् / 20 १.क. ख. पुरोहितस्य; भो. Rab tu bsDus pahi (प्ररोहितस्य) / 2. क. वृद्ध / 3. भो. Lus bCas ( सतनु०)। 4. क. ख. सक्तयो /
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy