________________ 158 विमलप्रभायां [अध्यात्म देशनावृत्तमाह [86a] पृथ्वोत्यादिपृथ्वीतोयाग्निवाताः कुलिशसुरधनुर्वायवो राशिचक्रं चन्द्रार्को राहुमेरुफणिमनुजसुरा राशिवक्राः सताराः / संक्रान्तिर्मासपक्षा दिननिशितिथयो देहमध्ये समस्त ज्ञातव्यं स्वस्ववर्गस्त्रिविधविभुगतिर्योगिना शून्यभेदैः // 2 // इह देहमध्ये पृथिव्यादिकं समस्तं ज्ञातव्यं स्वस्ववर्णैरिति / दन्त्यवर्णैः पृथ्वी ज्ञातव्या, औष्ठ्यैः स्तोत्रम्, मूर्द्धन्यैरग्निः, तालव्यैर्वायुरिति पृथ्वोतोयाग्निवाताः। कुलिशं विद्युत् पुनर्मूर्धन्यैः / सुरधनुरिन्द्रधनुर्दन्त्यः। वायवो दश तालव्यैः। राशिचक्रम्, आदिकाद्यैः समस्तैश्च चन्द्रो बिन्दुनाऽर्को विसर्गेण, राहुर्व्यञ्जनेन अस्वरेण, मेरुर्नामाक्षरेण, फणिनां वास ओंकारेण, मनुजावासो मर्त्यलोक आ:कारेण, सुरावासः हैकारेण / वक्रा ग्रहा मङ्गलादयो दक्षिणवामबीजैः पूर्वोक्तः संक्रान्तिादशवर्गभेदैः; मासा अप्येवम्; पक्षाः षड्वर्गार्द्धभेदैः; दिननिशितिथयः काद्यैः सस्वरैः पूर्वोक्तैरिति देहमध्ये समस्तं ज्ञातव्यं योगिना / त्रिविधविभुगतिर्योगिता शून्यभेदैः। पूर्वोक्तक्रमेण वज्रसत्त्वस्य' त्रिविधस्य कामरूपारूपस्वरूपस्य गतिरपि त्रिविधा, महासुखेन सर्वात्मनि 15 स्थितत्वादिति / सा च शून्यभेदैरिति बोधिचित्तचतुर्बिन्दुभेदैर्ज्ञातव्य इति देहे विश्वसंग्रहोद्देशनियमः। इदानीं मनुष्यशरीरोत्पत्तये कार्यकारणसामग्रीसंग्रहवृत्तं तृतीयमाह देहे इत्यादि देहेऽस्मिन् धातुवृन्दं भवति हि सकलं षड्रसाहारपानाद् भूतेभ्यः षड्रसाश्च प्रकटितनियतं भूतवृन्दं खधातौ / शून्ये ज्ञानं विमिश्रं भवति समरसं चाक्षरं शाश्वतं च. एवम्भूतस्थशान्तं त्रिविधभवगतं वेदितव्यं स्वकाये // 3 // इह देहे धातुवृन्दमिति लोमत्वक्रक्तमांसास्थिमज्जादिकं धातुवृ[86b]न्दं भवति हि सकलं षड्रसाहारपानाविति लवणमधुरकटुतिक्तकषायाम्लाः षट् रसाः, एषामाहारपानवशाद् धातुवृन्दं भवति / भूतेभ्यः षट् रसा इति पृथ्व्यप्तेजोवायुरसेभ्यः षड् रसाश्च भवन्ति / भूतवृन्दं खधाताविति पृथ्व्यप्तेजोवायुरसवृन्दं खधातौ पूर्वोक्तपरमाणुधर्म भवन्ति / शून्ये ज्ञानं विमिश्रमिति इह व्याप्यव्यापकसम्बन्धेनावस्थितं संवृत्या यत् स्वशरीरे सर्वसत्त्वानां विज्ञानम्, तदेव शून्ये शून्यताबिम्बे भावनाबलेन T 296 ग्राहकचित्तं ग्राह्यचित्ताभासे विमिश्रं समरसं चाक्षरं शाश्वतं भवति / अत्र शाश्वतं 30 निरावरणमुच्यते / एवम्भू तस्थशान्तं महासुखं त्रिविषभवगतं वेवितव्यं स्वकाये १.ग.चित्तवनसत्त्वस्य / २.क. ख. द्वितीय० /