________________ 146 . विमलप्रभायां [लोकधातु द्वौ द्वौ गर्भान्तराले स्खलितमपि भुजैमुद्रितं वा समन्तात् पृष्ठे षट्काण्डधारा उभयभुजसमा चाग्रतो यन्त्रवाहाः / कूपस्तम्भैनिबद्धश्चलदनिलपटैश्चालितं चानिलेन तत्रारूढं स्वसैन्यं व्रजति जलनिधौ तोयदुर्गक्षयार्थम् // 135 // अत्र बाह्ये चतुर्भुजासु प्रत्येकगर्भे पूर्वापरे भुजे पद(पुट) 'द्वये काये वामदक्षिणे [षण्णां मध्ये] आसु चतसृसु भुजासु स्तम्भकाष्ठेषु च्छिद्रभुजाच्छिद्रेभ्यो निर्गतेषु भुजाविस्तारत्रिभागिकेषु हस्तत्रयफलकेन उभयकोटिच्छिद्रितेषु न सर्वगर्भान् अन्योऽन्यं नियन्त्रयेत् गर्भकोणचतुष्टये। शेषप्रकाशस्थानेषु कीतिवालान् वाह्येदिति, ऊर्चे मुद्रितं वा पूर्वापरं समन्तात् कीतिवालप्रवाहस्थानानि वर्जयित्वा / सर्वयन्त्रस्य पृष्ठे 10 षट्काण्डधाराः; एवं द्वादश वि(त्रिंशतिः शतपर्यन्ताः, उभयभुजा समाश्चाग्रताः; तेषां काण्डधाराणां यन्त्रवाहाः सहस्रपर्यन्ता भवन्ति यन्त्रानुरूपत इति / अथ वा तान् अकुलं ज्ञात्वा कूपस्तम्भैनिबद्ध श्चलदनिलपटेर्वातपटैश्चालयन्तं वातेन तद् यन्त्रम्, तत्रारूढं स्वसैन्यं व्रजति जलनिधौ तोयदुर्गक्षयार्थम्, द्वीपान्तरग्रहणार्थमिति न्यायो दुष्टानां दमनार्थमिति जलयन्त्रलक्षणम् / इदानीं गिरिदुर्गक्षयार्थमग्नितैलमोक्षणाय वातयन्त्रमुच्यतेएके पीठेऽब्धिकोणे चलदनिलपटः सध्वजस्तम्भबन्धः पक्षे पृष्ठे मनुष्यैस्खलितमपि महौ रज्जुना मूनि गच्छत् / वातेनोधूयमानो व्रजति नभसि वै शैलदुर्गस्य मूनि , तस्मात् मुक्ताग्नितैलं दहति रिपुबलं सर्वदुर्गं समन्तात् // 136 // . एक इत्यादि / अत्र चतुर्हस्ते चतुरस्रे फलके पीठे मध्ये त्रिहस्तस्तम्भो विस्तारवृत्तेन द्वादशाङ्गुल: वामदक्षिणपृष्ठोऽग्रकोणेषु लोहकीलं सकटकम् ; तेषु कटकेषु रज्जुभिर्मनि स्तम्भं नियन्त्रयेत् / यन्त्रभागद्वयं उधिःपर्यन्तं दृढवस्त्रैराच्छादयेत् / अत्र कोणे ध्वजाः पञ्चहस्तमेकविस्तारः, अधोवामदक्षिणकोण*कटके रज्जुत्रयं हस्तद्वयं यावत्। तत्र एकं समाहारेण गिरिदुर्गादूर्ध्वमानतुल्यम्, तेन रज्जुना पृष्ठे मनुष्यैः 25 स्खलितं महौ रज्जुना मूनि गच्छता(त) तद् यन्त्रं वातेनोधूयमानं व्रजति नभसि वै शैलदुर्गक्षयार्थम् / तस्य मूनि तत्र यन्त्रेऽग्नितैलं पुरुषमेकं अग्निसहितं प्रवेशयेत्, तेन नरेण तस्माद् वातयन्त्रात् मुक्ताग्नितेलं दहति रिपुबलं सर्वदुर्ग समन्तादिति निश्चितं गिरिदुर्गभङ्गनि[87b]यमः / 1. भो. Nan (पट) / 2. अयमंशो भोटानवादे नास्ति / 3. ग. निर्गतेषु / 4. ग. वामदक्षिणे पष्ठोऽग्रे कोणे / 5-6 घ. 'स' अनन्तरं 'कटकं तेष' इति नास्ति / 7. ग. मानुष्यैः / *. 'अधोवामदक्षिणकोण' पर्यन्तमेव घ. पुस्तकं लभ्यते: अतः परं नास्ति /