________________ पटले] . 147 स्वरोदययन्त्रविधिनियममहोद्देशः चक्रं मूलेरघट्ट प्रभवति कणये चाग्रतश्चक्रमन्यत् द्विद्वयङ्गुल्यन्तराले पुनरपि रचितं मण्डलाये समन्तात् / चक्र सार्धद्विहस्तं भवति च कणयश्चोर्ध्व तोऽन्यस्सयष्टि: यष्टयने तीक्ष्णखड्गं भ्रमति लघुतया भ्रामिते यन्त्रमूले // 137 // कतूरी (कर्तरी')यन्त्रं प्रत्यक्षदर्शनेनावगन्तव्यम्, वृत्तेनापि स्फुटमुक्तमिति / रज्जुक्या वातयन्त्रं व्रजति हि गगने स्वप्रदेशात् क्रमेण दुर्गोर्वे शत्रुदूतस्ततिगतिनियतां रज्जुकी मानयित्वा / भूमौ मानं तथा वै कथितमपि भवेत् शृङ्गभेदे रिपूणां शृङ्गं दग्ध्वा समन्ताद् रिपुभवनतले मण्डलेऽग्नि प्रदद्यात् // 138 // एवं शृङ्गभेदोऽपि वातयन्त्रमपि प्रकटितं स्फुटं वृत्तेनापि अत्र टीका(या) विवक्षा 10 नास्तीति / चक्राणां मूनि भागे रचितमपि महामन्दिरं लौहकाष्ठेवृत्ताकारं समन्तात् पिहितमपि फलश्चर्मभिर्माहिषैर्वा / मानुष्यैश्चाल्यमानं व्रजति सममहौ खानिकां यावदेतत् तत् खानि पूरयित्वा प्रविशति सहसा कोट्टभित्तौ प्रतोल्याम् // 139 // 15 तथा वज्रपञ्जरेऽपि विवक्षा नास्तीति / . इदानी संग्रामे सगुड [सकवच] गजभेदाय नाराचयन्त्रमुच्यतेपीठे कीलद्वये वै सगुणमपि धनुनिश्चल यन्त्रयित्वा पृष्ठे द्वौ लौहकीलौ सुरचितकणयेऽप्यङ्गुलोकार्धचक्राः / अगुल्यग्रे गुणेन प्रचुरसमशरा तीक्ष्णनाराचकानां मुक्ताः संग्रामकाले सगुडगजतनुर्भेदयित्वा प्रयान्ति // 140 / / 20 षडङ्गुलं दीर्घतो नाराचया(मा)नं सिंहं कृत्वा तस्याध उर्ध्व सव्यवामभागे चतुरस्रषडङ्गुललौहदण्डारी(ग्रे) मुद्रितच्छिद्रे लौहकोलकैः द्विसन्धौ मध्यमायां सगुणमपि धनुनिश्चलं यन्त्रयित्वा, पुनस्तस्य पृष्ठभागे सव्येतरे चतुरस्रौ द्वौ लौहकीलको लौहदण्डाने कीलच्छिद्रे कणयानद्वयं प्रवेशयेत्, कणयमध्येऽङ गुलिकाः षट्-पञ्च-चतुः-त्रिः- 25 द्वे वा। अधो लौहैकदण्डिका कनिष्ठाङ गुलिप्रमाणा दीर्घेण व्यङ गुला अधः कीलकटके 1. भो.Gri Gug (कर्तरी)। 2. भो. GoCha Dan bCas pa (सकवच)। 3. भो. Va | 4. भी. Phur parNam Kyis (लोहकीलः)। 5. ग. अधो है।