________________ पटले]. स्वरोदययन्त्रविधिनियममहोद्देशः पाषाणस्य भवन्ति; उभयकरतलान्मुष्टिबन्धाद विमोक्षो भवति / मोक्षकाले पाषाणस्य भूस्पर्शनं भवति, सम'पदैः सव्यपादेयंन्त्रगर्भे प्रविष्टः, विषम पदैर्वामपदैः प्रविष्टैरिति / स्वेच्छापाषाणपातास्त्रिविधगतिवशात्, वामदक्षिणमध्यगतिवशाद्, दुर्गविध्वंसनार्थमिति स्थलदुर्गभेदनियमः। ऐभं यस्य प्रहारैनिपतति सहसा तस्य किं क्षुद्रजन्तुः कोट्टाट्टाले स्थितं यदि रिपुबलसकलं पातयेद् बाह्यसंस्थम् / का स्पर्द्धा तेन सार्द्ध क्षितितलनिलये धन्विनां दुर्गयुद्धे कः शत्रुस्तत्र दुर्गे विशति यममुखे यत्र यन्त्रप्रहाराः // 133 // ऐभं यस्य प्रहारैरित्यादिवृत्तं सुबोधमिति / इदानीं जलदुर्गग्रहणाय जलयन्त्रलक्षणमुच्यतेषट्पट्स्तम्भैर्भुजैः स्यादुभयपुटसमो हस्तयुग्मान्तराले गर्भेकैकोऽर्कहस्तोऽप्युभयपुटसमो नाधिको हीन एव / सर्व प्रत्येककोष्ठे पिहितमपि फलैश्चर्मभिः सिक्थवस्त्रगर्भे ऋत्वष्टदोषैस्त्रिगुणदिनकरैरेकमन्त्रं प्रकुर्यात् // 134 // षडित्यादि / अत्र जलयन्त्रार्थ षडङगुलात् काष्ठाच्चतुर्दशहस्ता विस्तारेण, हस्ति- 15 यन्त्रस्य चतुर्विशत्यङगुलाः, अश्वयन्त्रस्य विंशत्यङ्गुलाः, नरयन्त्रस्य षोडशाङ्गुलाः, षट्स्तम्भैादशहस्तान्तरान्तरस्थ(स्थि)तैरुभयपुटसमो नाधिको हीन एव; गर्भे एकैको द्वादशहस्तः, अधः पटे ऊर्ध्वपटे हस्तयग्मान्तराले द्विहस्तान्तराले षट्स्तम्भैः पुटद्वयेनैकैकगर्भा(8) भवतीति नियमः। सर्वं (सर्वत्र) प्रत्येककोष्ठे पिहितमहि(पि) फलैः (फलकैः) / अत्रोभयपार्वे भुजान् कारयित्वा, प्रत्येकफलके एकपाश्र्वे 20 कारयित्वा, अपरपावें अध ऊर्ध्वफलककोटीन् रक्षयित्वा, मध्ये अङ्गुलमेकं फलकात् फलकमध्ये प्रवेश्य नियन्त्रयेत्, यथा तोये प्रवेशो न भवति / एवमध उद्धा पूर्वापरे वामदक्षिणे सर्वत्र कार्यम् / उच्छयेण त्रिहस्तो गजानां गर्भः', अश्वानां सार्द्धद्विहस्तः, नराणां द्विहस्त इति चर्मभिः शि(सि)क्थवस्त्रैस्तेषु प्रत्येकफलके सन्धिप्रदेशेषु चर्मभिर्द्वतैः शि(सि)क्थवस्यैर्मनि मुद्रयेत्, यथा लहरिजलं न प्रविशति; गर्भमध्ये हस्तद्वयो- 25 च्छ्रितं ग्रीवास्थाने गर्भमध्ये प्रवेशाय कर्त्तव्यमिति। एभिर्ग:रधममध्यमोत्तमभेदैरनेकयन्त्राणि भवन्ति / ऋतुभिः षड्भिर्गर्भयन्त्रं भवति, अष्टभिर्वा दोषैरष्टादशभिर्वा ति(त्रि)गुणदिनकरैः . षट्त्रिशद्भिर्वा तद्विगुणैः तद्विगुणै [87a]र्वा गर्भयन्त्रं भवति, सहस्रगर्भपर्यन्तं महासमुद्रलङ्घनाय / 1. घ. पुस्तके नास्ति। 2. ग. यतुगर्भे / 3. ग. विसम / 4. ग. मिपदैः 5. भो. Kun la | 6. भो. sPan leb / 7. ग. गर्भः। * घ. पुस्तके १३४तमश्लोकव्याख्यायाम् 'एकको'पर्यन्तं पाठो लभ्यते; अनेच 135-136 श्लोकव्याख्यांशो लभ्यते /