________________ विमलप्रभायां [लोकधातु 10 इदानीं प्रतीत्यसमुत्पादमु(उ)च्यतेपुष्ये* मासे त्वविद्या मकरगतरवौ कुम्भसूर्ये च माघे संस्कारो मीनसूर्ये भवति नरपते फाल्गुने मेषसूर्ये / विज्ञानं नामरूपं वृषमिथुनगते चैत्रनैशाखज्येष्ठे नेत्राद्यं कर्कटेऽर्के भवति हरिरवौ स्पर्शनं वेदना च // 114 // आषाढे श्रावणे योषिदपि तुलगते माघ(भाद्र)मासेऽश्विने च तृष्णोपादानमेव प्रभवति च भवः कातिके वृश्चिके च। . जातिश्चापस्तु(स्थ)सूर्ये मरणमपि तथा मार्गशीर्षे क्रमेण एवं सूर्येन्दुभेदैरुभयगतिवशाद् द्वादशाङ्गानि राजन् // 115 // . पुष्ये माघेऽभिसन्धौ मकरगतरवौ तत्र वारे त्वविद्या तस्मान्मृत्यु द्वितीये भवति नरपते जातिरेवं तृतीये। एवं सर्न भवाद्यं क्रमगतिगुणितं द्वादशाङ्गानि यावत् तस्माद्वह्नयब्धिबाणं मरण(मकर)गतिवशात् षष्ठमासं (षडङ्ग) कदाचित् // 116 / / पक्षास्तिथ्याख्यवार रविचरणवशात् षोडशाङ्गैः कदाचित् संस्कारो माघसन्धौ कलशगतरवौ तत्र संस्कार एव / विज्ञानं तद्वितीये प्रभवति दिवसे नामरूपं तृतीये एवं मासद्वयानं भवति रविवशात् सृष्टिसंहारयोगात् // 117 // अत्राविद्यांशं विषममपि भवेच्छोभनं सर्वकार्ये संस्काराद्य समं यत् त्वशुभमपि यदा सेकयात्राविवाहे / एवं पक्षप्रभेदैः शशिगमनवशाद् द्वादशाङ्गानि यानि शुक्ले कृष्णे च पक्षे प्रथमतिथिवशात् सृष्टिसंहारयोगात् // 118 // 'आयुर्दशा' पश्चादागतांशः घ. पुस्तके [142b] पृष्ठे वर्तते, ततः परं त्रुटितांशं यावदत्र 'घ' पुस्तकस्यैव पृष्ठसंख्याया उल्लेखः / पुनः यतः ग. पुस्तकमारभ्यते ततः ग. पुस्तकस्यैव पृष्ठसंख्या कोष्ठकेषु उद्भियते / * अतः परं मूलं क, पुस्तकादेव दीयते /