________________ पटले] स्वरोदययन्त्रविधिनियममहोद्देशः 137 ___ [143a]'पुष्येत्यादि / पुष्ये मासे तु पुष्यनिर्गमे माघप्रवेशदिने अविद्या / अत्र द्वादशारः [2] राशिचक्रं मकरादिकम् / तत्र थपरि [प्रथमे आरे] 2 मकर इति दिने गतरवौ कुम्भसूर्ये च माघे, चकारादत्रैव माघान्ते फाल्गुण(न) प्रवेशदिने संस्कारः, एवं फाल्गुणा(ना)न्ते मोनचैत्रादिदिने विज्ञानम्, तथा चैत्रान्ते वैशाखादिदिने मेषे नामरूपम्, एवं वैशाखान्ते ज्येष्ठादिवृषभे दिने षडायतनम्, तथा ज्येष्ठान्ते आषाढादिमिथुनसंक्रान्ति- 5 दिने स्पर्शः। एवमाषाढान्ते श्रावणादिकर्कट संक्रान्तिदिने वेदना। एवं श्रावणान्ते भाद्रपदादिसिंहसंक्रान्तिदिने तृष्णा, तथा भाद्रपदान्तेऽश्विन्यादिकन्यासंक्रान्तिदिने उपादानम्, एवमश्विन्यन्ते कात्तिकादितुलासंक्रान्तिदिने भवः, तथा कात्तिकान्ते मार्गशीर्षादिवृश्चिकसंक्रान्तिदिने जातिः, तथा मार्गशीर्षान्ते पुष्यादिधनुसंक्रान्तिदिने जरामर[143b]णमिति 10 द्वादशारेषु यथासंख्यं ज्ञेयानि द्वादशाङ्गानि / त्रिसूर्यभेदः चन्द्रभेदः सर्वत्र प्रसिद्धः, पुष्यप्रतिपदादिना / उभयगतिवशादिति संक्रान्तिवशात् पक्षतिथिवशादिति द्वादशाङ्गानि। पुष्ये माघेऽभिसन्धौ मकरगतरवौ तत्र वारे त्वविद्या तस्माद् दिना[द्] द्वितीये दिने जरामणम् तृतीय वारे जातिः, चतुर्थे भवः, पञ्चमे उपादानम्, षष्ठे तृष्णा, सप्तमे 15 वेदना, अष्टमे स्पर्शः, नवमे षडायतनम्, दशमे नामरूपम्, एकदशमे विज्ञानम्, द्वादशमे संस्कार इति / यथा तृतीये वारे तथा त्रयोदशमे जातिः, चतुर्दशमे भवः, पञ्चदशमे वारे उपादानम् / .. कदाचित् षोडशमे वारे तृष्णेति सूर्यगतिभेदेनाङ्गानि, क्वचित् संक्रान्तिपक्षे 20 षोडशवारो भवतीति दक्षिणनाड्यां मकरसमं लग्नवशादिति / एवं माधफाल्गुन्य[144a]भिसन्धो कुम्भगतरवौ तत्र वारे संस्कारः, द्वितीये विज्ञानम्, तृतीये नामरूपम्, चतुर्थे षडायतनम्, पञ्चमे स्पर्श; षष्ठे वेदना, सप्तमे तृष्णा, अष्टमे उपादानम्, नवमे भवः, दशमे जातिः, एकादशमे जरामरणम्, द्वादशमेऽविद्या इति वामनाडी कुम्भविषयलग्नवशेन सृष्टिक्रमेण / अत्र यथा तृतीये तथा त्रयोदशमे नामरूपम्, 25 पञ्चदशमे स्पर्शः, क्वचित् षोडशमे वेदनेति / एवं सूर्यचन्द्रवारः सर्वत्रसमविषमभेदेन ज्ञेय उभयपक्षे संक्रान्तौ वारभेदेनेति / 1. अतः परं 'घ' पस्तकात [ ] कोष्ठके पाण्डुलिपेः पष्ठसंख्या प्रदत्ता / 2. अत्र घ. पुस्तकं त्रुटितम्; अतः भोटानुसारं अत्र पाठः पूरितः / भोटानुवादे 'Dan pohi rTsibs La' (प्रथमे आरे) इति विद्यते / 3-4. अत्रापि घ. पुस्तकं त्रुटितम्, तत्र 'इ "सूर्ये' इति / अतः भोटानुवादाद् अत्र पाठः पूरितः ; तत्र *Chu Srin te der Nima Son pa Laho' इति अस्ति / 5. घ. कर्कट / 6-7. भो. Nima hi dBye ba (सर्यभेदो लभ्यते)। ८.भो. rGyu ba (वाहः)।