SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ पटले. स्वरोदययन्त्रविधिनियममहोद्देशः इदानीं स्वरप्रश्नमुच्यते दूतेनेत्यादिदूतेनोक्ताः स्वरा ये खलु दशगणिता राशिचक्रण मिश्रा भूयो भूताहतास्ते निकटजनयुताः सप्तभागावशेषाः / चन्द्रे वह्नौ शरेऽद्रौ विषमपदगते नास्ति सिद्धिनराणां नेत्रे वेदे रसे वै सुसमपदगते कार्यसिद्धिर्भवेत् सः (च्च) // 107 / / 5 दूतेनोक्ताः स्वरा ये खलु दशगुणिता वामदक्षिणमण्डलैर्गुणिता इति, राशिचक्रण द्वादशभिमिश्राः, भूयो भूताहताः पञ्चभिर्गुणितास्ते निकटजनयुता नैमित्तिकं विहाय निकटजनेन युता इति / सप्तभामावशेषा वारभोगावशेषा' इति, चन्द्र एकवारे स्थिते, वह्नौ तृतीये वारे, शरे पञ्चमे वारे, अडो (द्रौ) सप्तमवारे, अवशेष स्थिते सति नास्ति सिद्धिनराणामिति, आदित्ये मङ्गले बृहस्पतौ शनिश्चरे विषमे, नेत्रे द्वितीयवारे, वेदे 10 चतुर्थवारे, रसे षष्ठे, कार्यसिद्धिर्भवति, सुसमपदगते चन्द्रे बुधे शुक्रे चावशेषे स्थिते सतीति स्वरप्रश्ननियमः। इदानीं वर्षादी [81b]नां विशेषाद् विशेष उच्यते वर्षेत्यादिनावर्षा मासाश्च पक्षा दिननिशिसमया लग्नमध्ये प्रविष्टा लग्नकं पञ्चभेदैर्ग्रहगणसहितं सस्वरं तत्त्वभिन्नम् / 15 तत्त्वैकं. श्वासषष्टयभ्यधिकगुणशतं वर्तते कालनाड्यां नाड्य शाः षष्टिलिप्तास्तदवयव इति श्वासषटकं नरेन्द्र // 108 // .. वर्षाः षष्टि' संवत्सराः, मासा द्वादश, पक्षाश्चतुर्विंशतिः, दिननिशिसमया अहोरात्रम्, प्रहरा अष्टौ, द्वादशलग्नमध्ये प्रविष्टाः। तेषु शुभाशुभफलहेतोर्लग्नमध्ये T289 प्रविष्टा लग्नमध्ये स्तंगताः। एषां लग्नवारादपर बलं नास्तीति लग्नैकं पञ्चभेदै२. 20 ग्रहगणसहितं स्व (स) स्वरं तत्त्वभिन्न भवति पूर्वोक्तविधिना। तत्त्वैकं श्वासषष्भ्यम्य'४ धिकगुणशतं "त्रिशतं वर्तते कालनाड्यां मण्डलनाड्यामिति / नायंसाः१७ (ड्यशाः) षष्टिलिप्ता इति तदवयवो लिप्ताः; अवयव इति श्वासषट्कम् / नरेन्द्रेत्यामन्त्रण इति विशेषाद् विशेषः श्वासबलनियमः / 1. ग. पुस्तके नास्ति / 2. ग. पुस्तके नास्ति / 3. घ. पुस्तके 'वारे' इति नास्ति / 4-5. ग. विशेषतो; घ. विशेषाद् विशेष / 6. ग. पुस्तके नास्ति / 7. ग. ०चतुविशतिः / 8. ग. तेसु / 9. ग. हेतोलग्न० / 10. ग. लग्नफले / 11. ग. लग्नवारादपरं / 12. ग. भेदे० / 13. घ. सुस्वरं / 14. ग. षष्ठाधिक० ; घ. षष्ट्यधिक० / 15. ग. गुणसतं / 16. ग. वर्तते / 17. ग. घ. नाद्यसाः।
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy