________________ लोकधातु - विमलप्रभायां इदानीं निःश्वासोच्छ्वासमध्ये' शुभाशुभफलमुच्यतेनिःश्वासोच्छ्वासमध्ये त्वशुभशुभफलं ज्ञायते योगयुक्तै र्दैवज्ञैः कालनाड्यां गतदिवसवशात् शोधयित्वार्कचन्द्रौ / न ज्ञाते वर्तमानेप्यशुभशुभफलं यो वदत्यत्र लोके सोऽन्धोप्यर्थं गृहीत्वा प्रविशति गहनं हस्तिसिंहप्रकोणम् // 109 // निःश्वासोच्छ्वासयोर्मध्ये यथासंख्यं अशुभशुभफलं३ निःश्वासे नाभिः (1) घ्राणे बहिनिर्गते प्रश्नकाले अशुभफलं भवतीति, उच्छ्वासे बाह्यतो नाभौ घ्राणे प्रविष्टे सति प्रश्नकाले शुभफलं भवति / तदेव ज्ञायते योगयुक्तर्नान्यैरिति; दैवजे ज्योतिषिभिः पुनः कालनाड्यां ज्ञायते / गतदिवसवशात् शोधयित्वार्कचन्द्रो' विषम10 समलग्नौ वामदक्षिणमण्डलनाडी बाह्य सा(शो)धयित्वेति / न ज्ञाते वर्तमाने एवं पूर्वोक्ते वर्तमानकाले 1 न ज्ञाते सति अशुभशुभफलं यो ववत्यत्रलोके; सोऽन्धोऽप्यर्थ गृहोत्वा प्रविशति गहन / वनं हस्तिसिंहप्रकोणमिति शुभाशुभफलाफलनियमः / इदानीं लग्नयोग उच्यते न ज्ञात इत्यादिन ज्ञाते सूक्ष्मयोगो(गे)ग्रहबलसहितो दीयते लग्नयोगः कालाग्निः सूर्यभौमो दिनकरतनयाद् दीयते सप्तराशौ / मृत्यु व्याधि व्रणं वै सकलधनविनाशश्च कुर्वन्ति तस्मिन् तस्मात् तद् वर्जनीयं स्फुट मम वचनैरन्यलग्नं प्रदेयम् // 110 / / न ज्ञाते सूक्ष्मयोगे पूर्वोक्ते निःश्वासोच्छ्वासयोगे न ज्ञाते सति सूक्ष्मयोगे'५ प्रहबलि(ल)सहितो दीयते लग्नयोगो लोकव्यवहारेणेति / उदयलग्ने उदयात् सप्तमे लग्ने 20 यदि कालाग्निर्भवति, तदा शुभकार्याथिनो मरणं भवति; यदि सूर्यो भवति, तदा व्याधिर्भवति; यदि भौमो भवति, तदा व्रणं भवति; यदि शनिश्चरो भवति, तदा धनविनाशो भवति / एवमुदयलग्ने जन्मल[82a]ग्ने सप्तमे च एतत् सर्वं तस्मिन् ग्रहाः कुर्वन्ति यस्मात्, तस्मात् तद् वर्जनीयं स्फुट “स(म)म वचनैरन्यलग्नं प्रदेयं मन्त्रिणेति / 1. ग. श्वासो० / 2. ग. निःश्वासश्वासयोर्मध्ये / 3. ग. अशुभाशुभफलं / 4. ग. भवति / 5. ग. दैवज्ञ]० / 6. ग. कालनाद्यां / 7. ग. ०त्वार्कचन्द्री। 8. ग. विसम०। 9. ग. ज्ञायते / 10. ग. वर्तमाणे। 11. ग. वर्तमान / 12. ग. शोऽन्धो०। 13. ग. गहणं / 14. ग. शुभाशुभफलादेशफलनियमः / 15. ग. शूक्ष्मयोगे / 16. ग. भोगो / 17. ग. वजनीयं / 18-19. ग. स्फुटमवचनैरन्य०; घ. स्फुटमवचने नान्यलग्नं /