________________ 10. विमलप्रभायीं [लोकधातुस्वरः, इतरश्च' वर्णस्वर इति / एवमध्यात्मनि वामदक्षिणे नासापुटमण्डल(ले) प्रवाहभेदेन व्यञ्जनोदयो ज्ञेयः। बाह्य वा कालनाडोति अत(तात्का)कालिकोदिता नाडी चा(वा)ग्रमतिहभवन (बाह्यग्रहभवन) समा ग्रहभवनमण्डलम्, तेन समा; सस्वरा सव्यञ्जना साधनीया शुभाशुभपरिज्ञानार्थमिति / इदानीं प्रश्नतः शुभाशुभफलमु(81a]च्यते प्रश्न इत्यादिनाप्रश्ने संग्रामकाले (प्रभ)वति च मरणं कालशून्योदिते च वायौ सूर्ये च भङ्गो व्रणमपि च भवेद्वह्निभौमोदये च / सन्धिस्तोये गुरौ स्यान्न हि भवति रणं भूमिमन्दोदये च मृत्यु(:)क्लेशा (शो)वणं स्यात् सुखमपि समता पृच्छकस्यातुरस्य।।१०५।। प्रश्ने सति संग्रामकाले प्रभवति मरणं कालशून्योदिते च संग्रामहेतोर्यस्यामन्त्रणं प्रथमं करोति, दक्षिणनाड्यां कालाग्निशून्यमण्डले उदिते सति स नृपो नरो वा, तस्य मरणं प्रकर्षेण भवतीति / एवं वायौ' वायुमण्डले सूर्ये उदिते भंगो भवति, वणमपि भौमवह्निमण्डलोदये सति, सन्धिस्तोये मण्डले गुरावुदिते भवति, भूमिमन्दोदये न हि 15 युद्धं संग्रामे भवतीति प्रश्ननियमः / एवमातुरस्य शून्यमण्डलादिके यथासंख्यं मृत्युः क्लेशो वणं सुखं समता स्यादिति पृच्छकस्य प्रश्ने सति आतुराणां भवतीति / संग्रामे शत्रुनाशः प्रभवति नियतो राहुशून्योदये च. वायौ चन्द्रे च भङ्गो व्रणमपि च रणे सौम्यवह्नयोदये च / शुक्र तोयेऽर्थलाभो रिपुरपि च वशी भूमिकेतूदये स्याद् एवं यात्राविवाहे भवति बहुफलं वाममार्गे ग्रहैश्च / / 106 // संग्रामे शत्रुनाशः, अत्र प्रथमोक्तस्य संग्रामे शत्रुनाशः प्रभवति नियतो वामनाड्यां राहुशून्यमन्डलोदये चेति / चकारः पादपूरणार्थः / वायौ वायुमण्डले चन्द्रोदिते भङ्गो भवति; वणमपि सौम्य वह नावुदिते सत्रोद्धृतप्रश्ने (शत्रोरुद्धृतप्रश्ने) / शुक्र तोयमण्डले उदिते अर्थ लाभो भवति। प्रथमोच्चारितस्य रिपुरपि च वशी''भूमिकेतूदये 25 स्यात् / संग्रामविषये, एवं यात्राविवाहे भवति बहुफलं वाममार्गे' 'ग्रहैश्च प्रश्ने कृते 3 सतीति 4 प्रश्नकाले नाशि(सि)कोदयनियमः / 1. घ. अन्यो। 2. भो. Phyi Rol Gyi gZh Yi gNas (बाह्यग्रहभवन०)। 3. ग. स्वराः / 4. घ. शोधनोया / 5. घ. वायौ न / 6-7. ग. पुस्तके नास्ति / 8. घ. शत्रोद्धृते मो (नो)च्चारितस्य प्रश्ने / 9. भो. Pho Nas Dris Pa Na dGrhi (शत्रोरुद्धृतप्रश्ने)। 10. ग. अलच्च / 11. ग. वसी। 12. ग. ०मार्गे। 13-14. ग. कृतिशतीति /