________________ [लोकधातु 120 विमलप्रभायां वानवानां म्लेच्छानां क्षितितलनिलये वागदायां' नगर्या रौद्रयुद्ध भविष्यति / ततः कृयुगप्रवेशो भविष्यतीति। इदानीं तिथ्यादिग्रहभोगे सर्वशून्यस्थिते पुनः ध्रुवकोत्पादा उच्यन्तेतस्मादृक्षदिनकं गुणितमपि भवेत् षष्टिभिर्नाडिकाभिभुक्तिः स्यान्मण्डलेन प्रभवति नियता भागलब्धा ग्रहाणाम् / पूणे मासे ध्रुवं स्यात् पुनरपि च भवेद् वारनाडीपदेषु नक्षत्रे सूर्यभोगो भवति दिनगणः शोधितो मास एकः // 90 // इति / 1. इदानीमपि इराकदेशे बगदाद-महानगरी प्रसिद्धा / 2. कालचक्रतन्त्रराजस्य मुद्रितपुस्तकेषु अयं श्लोको न लभ्यते, अस्य मूलस्य भोटानुवादेऽपि अयं नोपलभ्यते; किन्तु विमलप्रभायाम्, तस्य भोटानुवादे च अयं विद्यत एव / भोटदेशीय-आचार्य-खेस्-...' डुब-जे-महाभागैरयं श्लोको मूलत्वेन गृह्यते / अतः अत्रापि मूलत्वेन स्वीक्रियते / आचार्य-खेस्-डुब-जे-महाभागः स्वकृतायां विद्यासागराभिधायां (Rig Pahi rGya mTso, पृ० 465) विमलप्रभाटीकायां नवतिसंख्यक(९०)श्लोकोऽयं मूलकालचक्रतन्त्रस्यैवेति स्वमतं प्रकाशितम् / तैरिदं स्थापितं यद् यद्यपि भोटदेशीयानु-: वादकेन लोचवा-शोङ-तोन् महाशयेन मूलकालचक्रतन्त्रस्यानुवादप्रसङ्गे अस्य श्लोकस्यानुवादो न कृतः, स्वभोटानुवादे अस्यानुवादो न प्रस्तुतः, तथापि तस्य इदं कार्य स्पष्टतया स्खलितरूपमेव / इदं प्रतीयते यदनुवादार्थ तेन या संस्कृतपाण्डुलिपिरधिगता, सा तथाविधैव एतच्छ्लोकरहिता एवं त्रुटिपूर्णा च आसीत् / विहायैनां प्रथमपटलस्य कारिकासंख्या न्यूना भविष्यति / खेस्-डुब्-जे-महाभागेश्च स्वयं विभूतिचन्द्रस्य संस्कृतपाण्डुलिप्यां श्लोकोऽयं मूलत्वेन दृष्ट्वा व्याख्यातः / सर्वमतदालोच्यात्रापि मलत्वेनायं श्लोको गृह्यते / अत्र खेस-डुब-जे-महोदयानामेतद्विषयिणी काचिद् वाक्यभङ्गिः प्रस्तूयते; तद्यथा "De Nes sGyu sKar Nams Kyis Ses Sogs Kyi Tshig bCad hDi rТsa Tshig Yin par Sin Tu gSal La Vibhuti Candrahi Phyag d Pehi rGyud Kyi rGya d Pe La dKyus Na Yod Cin hGrel pahi Phyag dPe La Yan rТsa bar Byas pahi mChen Bu Yod Do Ses gSun Pa ITar Nes par rТsa Tshig Tu Bya dGos So. "Di Med Na rТsa Bahi Tshig bCad Kyi Gran Kyan Mi Tshan Bas Son "Gyur Gyi rТsa Bahi Nan Du hDi Ma Byun ba Ni dPe Ma Dag pa Las bsGyur Bahi Kyon Du mNon No." उपरिलिखितभोटांशस्य संस्कृतानुवाद : "'तस्मादृक्षः' इत्यादि कारिका / इयं मूलकारिका अस्तीति सुस्पष्टम्; यतो हि विभूतिचन्द्रस्य हस्तलिखितपाण्डुलिप्यामियं कारिका मूलरूपेणैव वर्तते / टीकायाः पाण्डुलिप्यामपि इयं कारिका मूलकारिकव स्वीकृता भवति / अतः कारिकेयं मूलकारिका अस्तीति निश्चितम् /