________________ पटले] ज्योतिर्ज्ञानविधिमहोद्देशः एकविंशतिलक्षं षडयुतमपि यद् वर्षसंख्या युगाधे भवति;युगान्तिात् पञ्च पदानि-कृद्युगस्य चत्वारि पदानि, त्रेतायाः पदमेकमिति, युगार्द्धमाकाशवायुतेजउदकपृथ्वीमण्डलात्मकम्, यथाक्रमं भर्तुमिनाड्यां' प्राणसञ्चार इति / भूयो राशिद्वयेन, पुद्वितीयराशिना पञ्चपदात्मकेन / तत्र त्रेतायाः पदद्वयम्, द्वापरस्य पदद्वयम्, कलेरेकपदम्, पृथिव्यपतेजोवायुशून्यात्मकम्; यथानु[78b]क्रमेण दक्षिणनाड्यां भर्तुः प्राणसञ्चारः पञ्चमण्डलात्मक 5 इति / एवमुभयनाडीमण्डलवर्षराशिद्वयेन वर्षसंख्या चतुर्णा युगानां द्वययुताधिकत्रिचत्वारिंशल्लक्षाणि मनुष्यवर्षाणामिति; भतुर्लग्नद्वयं वामदक्षिणनाडीमण्डलसञ्चारत इति; अत्र प्रत्येकयुगानाम् / शून्यं शून्यं खनागाः करमुनिशशिनः कृद्युगस्य प्रमाणं त्रेतायां खं खशून्यं रसनवदिनकृद् वर्षसंख्या प्रसिद्धा / शून्यं शून्यं खवेदं रसभुजगमिति द्वापरेऽब्दानि सम्यक् शून्याकाशं खनेत्रं गुणजलनिधयो वर्षसंख्या कलौ स्यात् // 88 // शून्यं शून्यं खनागाः करमुनिशशिन इति अष्टाविंशतिसहस्राधिकसप्तदशलक्षाणि वर्षाणां कृदयगस्य प्रमाणम, चतूमण्डलपदोपभोगत इति / त्रेतायाः२ खं खशून्य रसनवदिनकृदिति षण्णवतिसहस्राधिकद्वादशलक्षाणि वर्षसंख्या प्रसिद्ध ति। शून्यं शून्यं 15 खवेदं रसभुजगमिति चतुःषष्टि सहस्राधिकाष्टलक्षाणि द्वापरेऽब्दानि सम्यग् भवन्तीति / शून्याकाशं खनेत्रं गुणजलनिधय इति द्वात्रिंशत्सहस्राधिकचतुर्लक्षाणि वर्षसंख्या कलो स्यादिति / एवं त्रेतायाः त्रिपादाः, द्वापरे द्वौ, कलौ त्वेकपदम्; त्रिद्वयेकमण्डलात्मकः, प्रत्येकमण्डलं कलौ वर्षमानेनेति / एतैर्वर्युगान्ते ग्रहगणचरणं तिष्ठते राशिशून्ये अश्विन्याद्यं च भूयः प्रभव इति तथा चैत्रमासादिकं च / वारो योगस्तिथिर्वे करणमपि तथा चाधिकं तत्र काले / देवानां दानवानां क्षितितलनिलये रौद्रयुद्धं भविष्यति // 89 // [79a] एतैर्वर्षेयुगान्ते ग्रहगणचरणं तिष्ठते राशिशून्ये इति / एतैर्वर्षपूर्वोक्त'गान्ते चतुर्युगान्ते / ग्रहगणेत्यादि सुबोधम् / रेवत्यन्ते (राशिशून्ये तिष्ठति / )5 25 . अश्विन्याद्यं च नक्षत्रं भूयो ग्रहाणां भुक्तिर्भवति / प्रभव इति यथा भवति, चैत्रमासादिकं च तथा भवति / वारो योगस्तिथिर्वे करणमपि तथा चाधिकं तत्र काले / आदित्यवारः, 1286 विष्कम्भयोगः, प्रतिपत् शुक्लपक्षे तिथिः, करणं ववमित्यादिकम्; तस्मिन् काले / देवानां 1. घ. नाड्याः / 2. ध. त्रेतायां / 3. ग. घ. ०पादः / 4. भोटे सुबोधमिति न लिखितम्, अपि तु व्याख्यानं प्रस्तुतम् / 5. कोष्ठके लिखितांशो भोटानुवादमनुसृत्य प्रस्तूयते / तत्र एवमागतम्-Khyim Ni Ton Pa Dag LagNes So.