________________ 118 विमलप्रभायां [लोकधातुइदानीं चन्द्रमण्डले राहुप्रवेशलक्षणमुच्यते पर्वच्छेद इत्यादिपर्वच्छेदे च राहोः प्रविशति शशिनो मण्डले मण्डलं च सर्वग्रासो विशुद्धो भवति शशिवशान्मण्डलं षष्टिनाड्यः / अर्द्धग्रासोऽद्धंशुद्धे भवति शशिवशान्नाडिका यावदस्ति छेदो ग्रासो रवीन्दोदिननिशिसमये कृष्णशुक्ले च पूर्वे // 86 / / पर्वच्छेदे, पूर्णावसाने, अमावास्यावसाने वा, राहोः प्रविशति मण्डले शशिनो मण्डलम् ; मण्डलशब्देनात्र षष्टिघटिका, एकनक्षत्रपरिभोगः, स च द्वादशराश्यात्मकः, षोडशकलात्मको वेदितव्यः, सर्वग्रासवशादिति, सर्वनासो विशुद्धो भवति / यदि राहुभोगेन चन्द्र भोगः परिशुद्धस्तदा सर्वग्रासः षष्टिनाडिकापर्यन्तम् / अर्द्धग्रासोऽर्द्धभोगे 10 शुद्धे सति शशिचरणवशान्मण्डलं षष्टिनाड्योश्चन्द्रस्य षोडशकलात्मकम् / एवं शशि चरणवशान्नाडिका यावदस्ति राहुभोगे प्रविष्टा तावदेककलायाश्चतुर्थांशं यावद् ग्रहसमागमो ज्ञेय इति'। एतत् सिद्धान्ते राहो[78a]वजनादिकं विस्तरेण बाह्यज्ञानार्थ वेदितव्यम् / अस्मिन् तन्त्रे लघुहेतुतो मञ्जुश्रया न प्रकाशितम् / अत्र यदध्यात्मोपयोग्यं तदेवोक्तं 15 संक्षेपत इति / एवं ग्रहयुद्धादिकं समस्तं सिद्धान्ते ज्ञातव्यम् / अत्र तन्त्रे सिद्धान्तापेक्षा ज्योतिषविषये ग्रहयद्धादिके; अध्यात्मनि ग्रहयद्धविवक्षा नास्तीति भगवतो नियमः / न बाह्ये ग्रहणे जाते सति सत्त्वानां शुक्रग्रहणं भवत्यध्यात्मनि; रविग्रहणाद् रजोग्रहणं भवतीति नियमः सर्वत्र नास्ति / तस्माद् बौद्धर्बाह्यपरिज्ञानार्थं ब्रह्मसूर्ययमनकरोमकसिद्धान्तं(:) ज्ञातव्यमिति(ज्ञातव्या इति) भगवतो नियमः।। इदानीं सर्वग्रहाणां चतुर्युगान्ते शून्यचरणप्रवेश उच्यते मानुष्याणामित्यादिमानुष्याणां शताब्दं गुणितमपि भवेद् वर्षभुक्त्या ग्रहाणां द्विस्थं दिग्भागलब्धं भवति च तद् ऋणं शोधयेन्मूनि राशौ / विंशत्येकं हि लक्षं षडयुतमपि च षट्वर्षसंख्या युगाढे भूयो राशिद्वयेन प्रभवति नियतं वर्षसंख्या चतुर्णाम् // 87 // ___ मानुष्याणां शताब्दं यत् तद्गुणितं वर्षभुक्त्या ग्रहाणामिति कालचक्रेण सह ग्रहाणां सार्धदिनेन वर्षशतभुक्तिः, त्रिदिनैद्विशतम्, त्रिंशदिनैदिसहस्रम्, षष्ट्युत्तरत्रिंशदिनैः चतुर्विशतिवर्षसहस्र भुक्तिर्भवति / तया वर्षशतं गुणितं द्विस्थं दिग्भागलन्धम्, दशभागेन लब्धम्, मूनि राशौ ऋणं शोधनीयं भवति; अवशिष्टं विंशत्येकं हि लक्षं षडयुतमिति 1. स्रग्धरायाः 'छेदो ग्रासो' इत्यादिकस्य अन्तिमांशस्य व्याख्यानं संस्कृते भोटानुवादे वापि न वर्तते / 2. ग. °मुद्रादिकं / 3. ग. घ. पुस्तकयोः ‘षड्युतम्' इति नास्ति।