________________ 117 पटले] ज्योतिर्ज्ञानविधिमहोद्देशः 117 केतोभूयोऽधिकं यत् प्रतिदिनसमये गुण्यमिन्दोदिनैश्च षष्टया भागेन नाडी प्रतिदिनसमये शीघ्रवक्रोदये च // 83 // षण्मासेर्मासभुक्तमिति तदुपरि शुद्धिः सिद्धान्ते, किन्तु सत्त्वाशयवशेन करणापेक्षा इति / केतूदये पुनस्त्रिपक्षदिनैश्चारपदं गुणितं सार्धद्वादशाधिकशतलिप्तापिण्डं भवति / तदेव प्रतिदिने उदयात् केतोर्भवति इति कार्य वेदितव्यम् / यार्धनाडी ऋक्ष- 5 ऋणस्थाने लब्धेति मातृमोदकवाक्यं सत्त्वानां पाचनायेति / इदानीं ग्रहाणां चारबलमुच्यतेसौम्यो मन्त्री च शीघ्र प्रभवति बलवान् भौमकेतू च वक्रे मन्दः शुक्रश्च मन्दे प्रकृतिगुणवशात् शेषचारेऽबलाश्च / शीघ्र पूर्वा मुखाः स्युः पुनरपरमुखा वक्रचारे प्रविष्टा 10 मन्दे सव्याननाः स्युः स्वगतिगुणवशान्निर्गमे चोत्तरास्याः / / 84 // सौम इत्यादि / सौम्यो बुधः, मन्त्री बृहस्पतिः, शीघ्र शीघ्रचारे उदितः सन् पूर्वार्धे प्रभवति बलवानिति / भौमश्च केतुश्च भौमकेतू वके अर्धमण्डले परित्यक्ते उत्क्रमभोगात् बलवान् भवति / मन्दः शनिः शुक्रश्च मन्दक्रमेणापरार्धे बलवानिति / प्रकृतिगुणवशाद्वान्त(धातु)गुण'वशादिति / शेषचारे चारत्रये अबलाश्च भौमादय 15 इति / शीघ्र पूर्वा मुखाः स्युः, सर्वग्रहाः शीघ्रचारे पूर्वार्धे पूर्वा मुखाः स्युः ; पुनस्ते' ते अपरमुखाः पश्चिममुखाः वक्रचारे प्रविष्टाः सन्तः, मन्दे क्रमेणापरार्धे सव्यानभा(नना) भवन्ति / स्वगतिगुणवशानिर्गमे चोत्क्रमेणापरार्धे उत्तरमुखा भवन्तोति / एतत् स्वरोदयभूमिबलार्थं वाक्यम् / सूर्यचन्द्रपदान्युच्यन्तेमासैस्त्रिंशद्दिना ये जलनिधिनिहताः खाक्षिचन्द्रं यदीन्दो राशीनां द्वादशानां युगगुणितपदं चाष्टवेदं रवेश्च[77b] / तन्मध्ये हानिवृद्धी त्वयनगतिवशादुत्क्रमेण क्रमेण चक्राछुट्टै समस्ता वसुयुगगणना वेदितव्या नरेन्द्र // 85 // मासेस्त्रिशदिना ये जलनिधिनिहता, त्रिंशद्दिनाश्चतुभिगुणितास्ते, खाक्षि- 25 चन्द्रं यदिन्दोः, विंशत्यधिकशतंपदं भवति, चन्द्रस्य सप्तदिनावधेः कलावृद्धयर्थं वक्ष्यमाणे वक्तव्यम् / राशीनां द्वादशानां चतुभिगुणितानां चाष्टवेदं रवेः पदं षण्मासावधेर्भवति, तदेव वक्ष्यमाणे वक्तव्यम् / अत्र संग्रहमात्रेणैषां पदानां नियमः / तन्मध्ये हानिवृद्धी त्वयनगतिवशादुत्कमेण[कमेण] चक्राआँखें समस्ता वसुयुगगणना, अष्टचत्वारिंशद् गणना वेदितव्याः करणविवक्षायामिति / 1. भो. Khams Kyi Yon Tan (धातुगुण)। 2. क. यतस्ते / 20 30