________________ 121 पटले]. ज्योतिर्ज्ञानविधिमहोद्देशः इदानीं कालचक्रवर्षपक्षात् मासध्रुवकमुच्यतेषड्वर्गाः सार्कमात्राः खलु गुणगुणितास्त्रीणि वर्षाणि सूर्ये / आद्या ह स्वा दिनाख्यास्त्रिगुणशशिकलाः सार्द्धमासं हि चन्द्रे / नाड्यो हाद्याः समात्रास्त्रिगुणितमपि यत् तत् त्रिरात्रञ्च राहोः श्रीशून्यानाहताद्यास्त्रिगुणितमपि यत् तत् त्रिलग्नञ्च राहोः // 91 // . षड्वर्गाः सार्कमात्रा इति / षड् वर्गाः कचटत पसास्त्रिशदक्षरा(र)व्यञ्जनलक्षणा द्वादशस्वरैः सह षष्ट्युत्तरत्रिशता भवन्ति वर्णा ह्रस्वदीर्घस्वरभेदतः / अ आ इ ई उ ऊ ऋ ऋ ल ल अं अः, एभिः प्रत्येकाक्षरं ककारादिकं द्वादशभेदभिन्नं भवति, तेन त्रिंशद् व्यञ्जनानि द्वादशभेदभिन्नानि षष्ट्युत्तरत्रिशतानीति / पुनस्ते ककारादयो परगुणैर्भेदिन्य(ता.) यणादेशैर्भेदिताः खलु गुणगुणिताः; गुणा :-अ ए अर् 10 ओ अल् अं; वृद्धिः-आ ऐ आर् औ आल् आः; यणा [79b]देशाः-हहा यया ररा ववा लला हंहा इति / एवं त्रोणि वर्षाणि सूर्येऽशीत्युत्तरसहस्रदिनानि भवन्ति तानि ककारादीनीति। आद्या ह्रस्वा दिनाख्याः पञ्चदश त्रिगुणशशिकला (:) ह्रस्वदीर्घप्लुतभेदेन साद्ध मासं त्रिपक्ष चन्द्र भवतीति / तत्र अ इ उ ऋल, अ ए अर ओ अल, ह य 15 व र ल, ला वा रा या हा, आल् औ आर् ऐ आ; ल ऊ ऋ ई आ, आँ ई ऋ ॐ ल आँ ऐं आर, औं आलं हाँ याँ राँ वाँ लाँ इति त्रिपक्षस्वराः / नाड्यो हाद्या भवन्ति षष्टिसंख्या द्वादशलग्नभेदेनेति मध्याह्नादर्द्धरात्रं ह्रस्वाः पूर्वोक्तविधिना; दीर्घा अर्द्धरात्रान्मध्याह्न यावत् त्रिंशदिति / श्रीशून्यानाहताधा ये पञ्च ते सत्त्वरजस्तमोभेदेन जाग्रत्स्वप्नसुषुप्तस्वभावेन 20 त्रिलग्नानि राहोः प्राणवायोर्भवन्तीति नियमः / भूताः सूर्येन्दुसंख्याः पुनरपि नृपते साद्धं मासत्रिपक्षं त्यक्त्वा सार्द्ध हि मासं भवति मुनिवरैश्छेदितं कालचक्रम् / मासक्षेपैकवारो द्विगुणनृपघटोपिण्डके द्वे त्वधश्च चक्र वारो विभक्तो भवति नियमितः षष्टिभिर्देवतीभिः // 92 // 25 यदि इयं कारिका मूलकारिका न स्यात् तहि मूलकारिका अपूर्णा भवेत् / अतः प्रतीयते इदं यत् शोङ्-तोन्-लोचवामहाशयेनानूदितमूले अस्याः कारिकाया अप्रस्तुतिः त्रुटिपूर्णा, अपूर्णां पाण्डुलिपिमाधारीकृत्य तेनानुवादकायं कृतम्" इति / 1-2. ख. पत / 3-4. ख. ग. घ. ऋ ऋ उ ऊ / 5-6. ख. घ. ऋउ / 7. ख. पुस्तके नास्ति।