________________ विमलप्रभायां लोकधातुपश्चानाम् / एतन्मासत्रयेणान्ददिनऋणघटी, अशीत्युत्तरसहस्रघटी, भक्तिरेषां त्रयाणामिति सिद्धान्तकट()क्षवचनात् मञ्जुश्रिया गदितम् [75 a] / मासे भुक्तिर्गुरोः स्यात् प्रकटितघटिका रुद्रपादाससंख्या त्रिंशत् पाणीपलानि स्फुटयुगघटिका सूर्यपुत्रस्य भुक्तिः / एकीभूता दिनाख्या त्रिगु णितमपि तत् सार्धमासः सरात्रः भतुर्भुक्तौ दिनानां प्रतिदिवसमृणं षट्ग्रहाणां च भुक्तिः / / 75 / / मासे भुक्तिर्गुरोः स्यादित्यादि सिद्धान्तवृत्तमिदं कटाक्षार्थमुक्तं लोकरूढिक्षयार्थम् / अत्र ये त्रिपक्षास्ते केतूदयभोगसम्बन्धिनः पञ्चग्रहाणां मूलसिद्धान्ते उक्ताः, अतो न ते बृहस्पतिशनिनो गे देया इति'। 10 इदानीं राहुभोगात् केतुभुक्तिरुच्यते मासेकं मन्दकर्मण्यपि च धनविभोनानुभुक्तं ग्रहैर्यत् तस्माद् वै सार्द्धसप्तत्रिगु णितघटिका भुक्तिरत्रैव मासे / राहोर्मासस्य भुक्तिः सरविशशिपदं चाद्ध नाडीविहीनं तिस्रोऽर्कस्यायनाड्यो(ो) शशिमदनदिने पञ्च चन्द्रस्य नाड्यः / / 76 // मासैकमित्यादि। इह प्राङ्मन्दकार्ये सार्धषट्त्रिंशन्मासावशेषं यन्मासं प्रहर्नानुभुक्तं तदेव मासमष्टगुणाहतं ततः षड्यंशेनाष्टघटिका ग्राह्या, तासु सार्धसप्तघटिका राहोर्मासपरिभोगः। त(अ)त्रैवेति सूर्यमासप्रमाणे राहोर्मासस्य भुक्तिः / सरविशशिपदमिति रवेः सत्त्वरजस्तमासि त्रिपदानि, शशिनो गन्धरसरूपस्पर्शशब्दगुणाः पञ्चपदानि; एतान्यष्टपदानि राहो सासप्तघटिका[रूपा]णि शेषार्धघटो निस्तमोरूपा 20 इति, तया हीनं चार्धनाडाविहोनम् / तिस्यो(स्रोs)स्यायनाड्ये(ो) मकरसंक्रान्ती प्रथमपक्षे तिस्रो नाज्यः सत्त्वरजस्तमात्मिका धनभोगः / एवं कर्कटप्रथमपक्षे ऋणपरिभोग इति / शशिमदनदिने इति प्रथमदिने प्रथमपदे पिण्डस्थाने चतुर्दशभागावशेषे त्रयोदशमे(शे) वा पञ्च चन्द्रस्य नाड्यो भवन्ति पञ्चगुणात्मिका इति [75b] / नो भुक्ता यार्द्धनाडी ऋतुदिनसमये सा कलाहीनचन्द्रा सा सूर्यस्याधिका स्यात् खलु युगग णिता सूर्यमासे दिनं तत् / राहोर्मासस्य भोगान्नयनविगु णितात् पक्षभोगेन भक्तात् लब्धाः केतोश्च नाड्यः प्रतिदिनसमये मासभोगाच्च राहोः // 77 // 1. इतः परं स्रग्धरांशस्य व्याख्यानं नोपलभ्यते, न चानुल्लेखस्य हेतुलिख्यते; यथा संस्कृते तथा भोटानुवादेऽपि नोपलभ्यते / अत एव अनुपलब्धांशस्य व्याख्यानं भोटदेशीयाचार्यः खेस्-डुब-जे महाभागैः स्वटीकायां (DushKhor Tik Chen) कृतम् ; तत्तु तत्रैव द्रष्टव्यम् / 2. ग. षष्ठ्यङ्गेन / 3. ग. हीनां / 4. ग. विहीनाम् / /