________________ पटले] ज्योतिर्ज्ञानविधिमहोदशः 113 स्थितिरवनिसुतस्यापरार्धे पूर्वभागे इति / तत्त्वानीति' पञ्चविंशतिः, अष्टादश, अद्रीति सप्त; अवनिसुतस्य मङ्गलस्यापरार्द्ध पूर्वभागे, एषां क्रमेणे[74b]ति / एवं विकौलाग्नी बुधस्य इति' दिक् दश, शैलाः सप्त, अग्निः तिस्र' इति / तथेशनवशिखिगुरोः / एकादशनवशिखीति त्रयः गुरोबृहस्पतेः। शेषं पूर्वोक्तक्रमेणेति' पूर्वभागेपरभागे च। शुक्रस्येष्वब्धिचन्द्रा भवति च शशि(नि)नः साक्षिनेत्रं दिनतु - से भौमस्य भुक्तिश्च नवतिघटिका पञ्चलोकेन्दुसंख्या। शुक्रस्येवं बुधस्यापि खरसहुतभुक् पिण्डमेकीकृतं स्यात् एतन्मासत्रयेणाब्ददिनऋणघटी भुक्तिरेषां त्रयाणाम // 74 // एवं शुक्रस्येष्वब्धिचन्द्राः 10 शुक्रस्येत्यादि / इषु(:) पञ्च, अधिरिति चत्वारि, चन्द्र एकः / एवं शशि (नि)*नः साक्षिनेत्रं दिन: भवति / साक्षिनेत्रं द्वाविंशति(:), दिन (-) पञ्चदश, ऋतु (:) षट्; असौ क्रमः पूर्वमुक्त इति / एवं कालचक्रमासपरिभोगाष्टगुणिता षष्ट्यंशा राशिचरणघटिका वेदितव्येति / . इदानी पञ्चग्रहाणां मङ्गलादीनां त्रिराशिपरिभोगात् त्रिवर्षदिनतुल्यघटिकापरि- 15 भोग उच्यते मास इत्यादिना मासे भौमस्य भुक्तिश्च नवतिघटिकेति' लोकरूढिः; स्वरूपतो मण्डलभागेन लब्धा घटिका भवन्ति / मासोऽपि सार्वत्रिंशदिनैर्भवति / तेन सिद्धान्तमानेन बृहस्पतिशनिभोगेन सार्धं नवतिघटिका त्रयाणां ग्रहाणां सूर्ये विशोधितानामिति सिद्धान्तः; पञ्चलोकेंन्वसंख्या शक्रस्य न यक्तम', सिद्धान्तप्रामाण्यात / सर्यभोगो यतः शक्रे 20 विशोधितः शुक्रो भवति; तेन पञ्चत्रिंशदधिकशतं शुक्रस्य मासपरिभोगं घटिकापिण्डम् / बुधस्याप्येवम् / खरसहुतभुक् पिण्डमेकोकृतं तत् षष्टयुत्तरत्रिशतघटिकापिण्डं भवति 1-2. घ. पुस्तके 'तत्त्वानि' इत्यारभ्य 'क्रमेणेति' इति यावत् नास्ति; अयमंशो भोटानुवादेऽपि नास्ति / 3-4. घ. पुस्तके 'इति' आरभ्य 'तिस्र' पर्यन्तं नास्ति; अयमंशी भोटानुवादेऽपि नास्ति / 5-6. घ. पुस्तके 'एकादशः' इत्यारभ्य '०क्रमेणेति' इति पर्यन्तं नास्ति; अयमशो भोटानुवादेऽपि नास्ति / 7-8. घ. पुस्तके 'शुक्रस्यः' इत्यारभ्य 'चन्द्र एकः' इति पर्यन्तं नास्ति / भोटानुवादे तु 'शुक्रस्य०' इत्यारभ्य 'ऋतुः षट्' इति पर्यन्तं नास्ति / 9-10. घ. नवति त्रिलोकघटिः / 11. घ. पुस्तके 'युक्तम्' इत्यतः 86 श्लोके 'शशिचरणवशात्' इति पर्यन्तं वटितम् / *. भोटानुसारम् /