________________ 112 विमलप्रभायां [लोकधातु षट्चन्द्राम्भोधिसंख्या इति षोडशाधिकशतचतुष्टयं पिण्डमेतच्चतुर्दशस्थाने भृगोः शुक्रस्य भवति / तस्मात् घटिकास्त्रिस्थाने पञ्चविंशदिति प्रथमस्थाने पञ्चविशदेवं द्वितीये तृतीयेऽपि द्विजिन इति चतुर्थे चतुर्विंशति(:), पञ्चमेऽपि तथा हस्तनेत्रं द्विधा स्यादिति षष्ठे द्वाविंशतिः। सप्तमेऽपि दोषा[]तिथ्यष्ट इति; अष्टमे अष्टादश, 5 नवमे पञ्चदश, अष्टमे अष्ट, मूलात् ततोऽपरार्धात् षडपि च खगुणमिति / एकादशे षट्, द्वादशे त्रिंशत्, त्रयोदशमे(शे) एकहीनं शतम्। अन्ते चतुर्दशमे(शे) वह्नयद्रिसंख्यमिति त्रिसप्ततिरिति / स्थितिभुवनपदे चतुर्दशपदे' शुक्रचाराः क्रमेणावगन्तव्या इति / सौरेः षड्भूतसंख्या प्रभवति घटिकापिण्डमेतन्नरेन्द्र 10 षड्भूताभूतवेदा जलनिधिनयनं युग्मशून्याश्च मूलात् / पक्षौ वेदाश्च भूता रसवसुशिखिन(ः) स्थापनीयाः क्रमेण एवं चारो ग्रहाणां भवति सुनियतः कालचक्रे समस्तः // 72 // [74a] सौरेः षड्भ तसंख्या इति षट्पञ्चाशत्घटिकापिण्डं चतुर्दशस्थाने मन्दस्य भवति; तस्मात् षड्भूताभ तवेदा इति प्रथमपदे षट्; द्वितीये पञ्च, तृतीयेऽपि; 15 चतुर्थे चतस्रः / जलनिधिनयनमिति पञ्चमे चतस्रः, षष्ठे द्वे, सप्तमे युग्ममिति द्वे, अष्टमे शून्यम् / मूलात तस्मादपरार्द्ध। पक्षो(क्षौ) वेदाश्च भूता इति नवमे द्वे, दशमे चतस्रः, एकादशे पञ्च; रसवसुशिखिन इति द्वादशे षट्, त्रयोदशेऽष्ट, चतुर्दशे तिस्रो नाड्यः स्थापनीयाः क्रमेण शनैश्चरस्य चतुर्दशस्थाने / एवं चारो, प्रहाणां भवति सुनियतः कालचक्रे समस्त इति मध्यमायां वर्षशतं श्वासदिनचक्रे कालचक्रे इति 20 ग्रहाणामुदयचारघटिका भोग इति / इदानीं मन्द्रकार्ये जन्मराशिघटिकामन्दपदान्युच्यन्तेषट्त्रिंशत्साद्धमासाः खलु वसुगुणिता मन्दकार्ये पदानि नेत्रा[] रन्ध्राक्षिसंख्या भवति च घटिका मङ्गलादिग्रहाणाम् / तत्त्वान्यष्टादशाद्रिः स्थितिरवनिसुतस्यापरे पूर्वभागे दिक्ौलाग्नी बुधस्येशनवतिशिखिगुरोः पूर्वभागेऽपरे च // 73 // षत्रिंशदित्यादि / षट्त्रिंशत्साद्धमासास्त्रिवर्षाणां षट्त्रिंशन्मासाः त्रिपक्षाणां पक्षमेकं गृहीत्वा खल्विति निश्चितम् / वसुगुणिता इति शब्दस्पर्शरूपरसगन्धसत्त्वरजस्तमोऽष्टगुणाः, एभिरष्टगुणगुणिता मन्दकार्ये पञ्चग्रहाणां पदानि भवन्ति / नेत्राद् रन्धाक्षिसंख्या, द्वानवत्यधिकं द्विशतसंख्या राशिघटिका भवन्ति / तस्मात् प्रकट____ 30 मङ्गलादीनां षट्पदेषु पूर्वार्द्धऽपरार्द्ध उत्क्रमेण ज्ञातव्या। तत्वान्यष्टादशाद्रिः 1. क. पुस्तके नास्ति / T 284