________________ पटले] ज्योतिर्ज्ञानविधिमहोद्देशः वेदाद्धेन्दुसंख्या प्रभवति घटिका शीघ्रकार्ये बुधस्य द्विस्थाने षोडशान्ये तिथिमनुमदना रुद्रशैलेन्द्रियं खम्[73a] / मूलाद् वेदाद्धरश्च प्रकटितनियतं द्वादशे विंशतिश्च अष्टाविंशच्चतुस्त्रिशदपि मनुपदे संस्थिताश्चारभेदैः // 69 // वेदानन्धेन्दुसंख्या प्रभवति घटिका शोधकार्ये बुधस्येति / इह चतुर्नवत्यधिक- 5 शतघटिकापिण्डं बुधस्य, यथा मङ्गलस्य चतुर्दशस्थाने स्वकीयघटिकापिण्डं तथा बुधस्याप्यवगन्तव्यम् / शीघ्रकर्मणि नक्षत्रकर्मणोति द्विस्थाने षोडशेति प्रथमस्थाने षोडश, द्वितीयस्थानेऽपि षोडश / अन्ये तिथिमनुमदना इति तृतीये पञ्चदश, चतुर्थे चतुर्दश, पञ्चमे त्रयोदश / रुद्रशैलेन्द्रियं खम् / षष्ठे एकादश, सप्तमे सप्त, अष्टमे पञ्च, नवमे शून्यमिति / मूलाद् वेदाह(द्ध)रश्चेति / ततो नवमस्थानान्मूले अपरार्धे दशमस्थाने चत्वारः, एकादशे एकादश, द्वादशे विंशतिः, त्रयोदशे अष्टाविंशतिः, चतुर्दशे चतुस्त्रिशदपि स्थापनीयाः। एवं यथाक्रमेण संस्थिताश्चारभेदैर्घटिका बुधस्य वेदितव्येति / अब्ध्याकाशेन्दुसंख्या भवति हि घटिकापिण्डमेतद् गुरोश्च द्विस्थाने दिक्प्रमाणा नववसु ऋतवः षट्करेन्दुश्च मूलात् / 15 वह्निः षडरन्ध्ररुद्रा नरपतिमुनयः सर्वचाराः क्रमेण शीने मन्दे च वक्र ग्रहगणनियमः सूर्यभेदैश्चरन्ति // 70 // अबध्याकाशेन्दुसंख्या चतुरुत्तरशतघटिकापिण्डं गुरोश्चतुर्दशस्थाने विभञ्जितं चारभेदेन भवति / तस्माद् घटिकापिण्डाद् द्विस्थाने दिक्प्रमाणा दश प्रथमस्थाने, द्वितीये दश, नवमे' वसु ऋतव इति तृतीये नव, चतुर्थे अष्ट, पञ्चमे षट् / 20 षट्करेन्दुश्चेति षष्ठे षट्, सप्तमे द्वौ, अष्टमे एकः / मूलादपरार्धाद् वहि नः षड्ध्ररुद्रा इति नवमे तिस्रः, दशमे षट्, एकादशमे(शे) नव, द्वादशमे(शे) एकादश / नरपतिमुनय इति त्रयोदशमे(शे) षोडश, चतुर्दशमे(शे) पदे सप्त ; सर्वचाराः [73b] क्रमेणेति / एवं सर्वचरणघटिका यथानुक्रमेण सर्वग्रहाणां वेदितव्येति; शीघ्र शीघ्रचारे उदितग्रहस्य पूर्वार्धे, मन्दे चापरार्धे च(व)के उत्क्रमेण पूर्वार्धे; चकारादुत्क्रमेणापरार्धे निर्गमे 25 प्रहगणनियमः सूर्यभेदैः सूर्यात् विशुद्धिभेदैश्चरन्तीति / षट्चन्द्राम्भोधिसंख्या भवति हि घटिका (:) शीघ्रकार्ये भृगोश्च त्रिस्थाने पञ्चविंशद् द्विजिन [इति] तथा हस्तनेत्रं द्विधा स्यात् / दोषास्तिथ्यष्टमूलात् षडपि च खगुणं चैकहीनं शतं च अन्ते वह्नयद्रिसंख्यं स्थितिभुवनपदे शुक्रचारा(:) क्रमेण // 71 // 30 1-2. क. नवसु /