________________ 110 विमलप्रभायां [लोकधातु - इदानीं मध्यमावधूत्याः षष्ट्यंशा घटिका पञ्चग्रहाणां नक्षत्रोदयचरणघटिका मङ्गलादीनां पिण्डमुच्यते नोच्छिन्नमित्यादि नोच्छिन्ने कालचक्र त्वयनऋणनव क्षेपयित्वा समस्तं पञ्चानां शीघ्रकर्मण्यपि चरणघटी मङ्गलादिग्रहाणाम् / भौमे वेदतुवह्निः प्रभवति भुवनस्थानके चारभेदस्तुल्याः पूर्वापरार्द्ध त्वृणधनगतिषु स्थानभेदैनियोज्याः // 67 // नोच्छिन्ने कालचके / त्रिवर्षत्रिपक्षदिने अच्छिन्ने पञ्चविंशत्यधिकैकादशशते अयने ऋणनव, गर्भनवमासे ऋणघटिका नव क्षेपयित्वा समस्तं घटिकापिण्ड चतुःत्रिंशदधिकैकादशशतसंख्या पञ्चानां शोधकर्मणि नक्षत्रकर्मणि'; अपि चरणघटी 10 मङ्गलादीनां ग्रहाणां भवति / भौमे वेदर्तुवहि नस्तेभ्यो मङ्गले चतुःषष्टयुत्तरत्रिशत संख्या भवति; घटिकापिण्डं भवनस्थानके चतुर्दशचरणपदे सार्द्धत्रयोदशनक्षत्रभोगतः; चारभेदैश्चतुर्विंशत्यादिभेदैः; तुल्याः पूर्वापरार्धे, नक्षत्रचरणवशात् पूर्वार्द्ध द्वयशीत्य[72b]धिकशतम्, अपरार्द्ध द्वयशीत्यधिकशतं च नक्षत्राणामार्द्धत इति / ऋणधनगतिष्विति / उक्तक्रमेण ऋणगतिषु क्रमेण धनगतिषु स्थानभेदैनियोज्याः; 15 आदित्यमण्डलादुदितं नक्षत्रं प्रथमस्थानम्, तस्मात् स्थानभेदादपरचतुर्दशस्थानानि, तैः स्थानभेदैस्ता घटिका नियोज्या इति / आदौ जैनेन्द्रसंख्या प्रभवति घटिका वह्निनेत्रं त्रिधा च द्विस्था सैकाक्षिरष्टादशकतिथिहरा वह्निमूलाद् वरश्च / अष्टत्रिंशत्त्वशीतिः स्थितिभुवनपदे सत्रिपञ्चाशदत्र 20 तस्मिन्नर्के विशुद्ध त्वृणमपि च धनं चोत्क्रमेण . क्रमेण // 68 // आदौ जैनेन्द्रसंख्या प्रथमनक्षत्रभक्तिपदे चतुर्विंशतिः, वहिननेत्रं त्रिधा च प्रभवति त्रयोविंशतिः, प्रथमस्थानात् द्वितीये तृतीये चतुर्थे भवति विधेति / द्विस्था सैकाक्षिः, ततश्चतुर्थस्थानात् पञ्चमे षष्ठे स्थाने, एकविंशतिः द्विस्था इति / अष्टादशकतिथिहराः। ततः षष्ठस्थानात् सप्तमे अष्टमे नवमे स्थाने यथासंख्यमष्टादश,तिथिरिति पञ्चदश,हरा इति 25 एकादश / वहि नमूला वरश्चातो नवमस्थानाद् दशमस्थाने वह्निरिति त्रयश्चारास्ततो मूलादपरार्धमपरार्धे हरा एकादश एकादशे स्थाने / अष्टत्रिंशदशीतिः द्वादशे अष्टत्रिंशत्, त्रयोदशे अशीति स्थितिभुवनपदे चतुर्दशपदे सत्रिपञ्चाशदत्रेति, त्रिभिः सह पञ्चाशत् सत्रिपञ्चाशदिति, त्रयः पञ्चाशदत्र चतुर्दशपदे नियमः / तस्मिन्नक्षत्राद्धचक्रे अर्के विशुद्ध सति ऋणमुत्क्रमेण भवति, धन क्रमेण भवति, मङ्गलादीनां 30 ऋणं नक्षत्रभोगे हेयं धनं देयमिति / 1. ख. पुस्तके 'नक्षत्रकर्मणि' इति नास्ति / 2-3. घ. पुस्तके 'भौमे' इत्यारभ्य भवति'. इति पर्यन्तं नास्ति / 4-5. घ. पुस्तके 'अपरा द्वयशीत्यधिकशतं' इति अधिकः /