________________ पटले]. ज्योतिनिविधिमहोद्देशः 5 रात्रं **भवति, अर्द्धचक्रोपभोगतः। नव मासाश्च भौमे च रात्रिरिति करणविवक्षा / एवं गुरोः षड् वर्षाः स्युः। यथा रवेस्तथा अयनमपि भूगोश्चायनं चन्द्रसूनोर्बुधस्य च तिथ्याख्यावानि। पञ्चदश वर्षाणि, सौरो (रः) शनैश्चरस्य तमिनि राहोर्नव वर्षाणि अहोरात्रार्द्धमर्द्धनक्षत्रचक्रोपभोगतो भवति / तत् सर्व चैकपिण्डं वसुगुणितयुगाब्दानि, द्वात्रिंशदब्दानि, सार्वत्रिमासा भवन्ति, सत्त्वगुणविभागे सत्त्वानाम् / संख्या सार्धे दिने चाब्दशतमपि भवेत् कालचक्रोनमत्र प्राणाः सत्त्वे वहन्त्यारजसि तमसि वै कायवाचित्तभेदैः / पञ्चत्वं यान्ति तस्मात सुरनरभुजगाः सार्धरात्रेण चेन्दोरेषा संख्या प्रसिद्धा भवति सुनियता कालचक्र नरेन्द्र // 66 // संख्या सार्धे दिने शा(सा)र्द्धनक्षत्रचक्रोपभोगतः, सत्त्वरजस्तमोभेदेनाध्दशत- 10 मपि भवेत् कालचक्रोनमिति / त्रिवर्षत्रिपक्षोनं सार्द्धदशमासाधिक षण्णवतिवर्षपिण्डं भवत्यष्टग्रहाणामेकपिण्डत इति / प्राणाः सत्त्वे वहन्ति / अत्र सत्त्वानां सार्वत्रिमासाधिकद्वात्रिंशद्वर्षाणि यावत् प्राणाः सत्त्वे सत्त्वगुणा वहन्ति / तत आरजसि तेनैव मानेन, ततस्तमसि वै तेनैव क्रमेण पञ्चत्वं यान्ति / तस्मादवधेस्सत्त्वरजस्तमोऽवशा(सा)नतः सरनरभ जगाः स्वस्ववर्षशतमानतः। सादर्धरात्रेण चेन्दोः त्रिपक्षेण कालचक्रस्येति: 15 चकारात् पूर्वत्रिवर्षेणात्र पञ्चत्वं मरणं व्रजन्ति संसारिणः / "शतायुर्वं पुरुषः शतेन्द्रियः" (ऐ० ब्रा० 2 / 17 / 4 / 19)3 इति वचनाल्लोकव्य[72a]वहारः, परमार्थयुक्त्या नियमाभावः; सत्त्वानां स्वस्वकर्मवशादुत्पादो निरोधश्चावगन्तव्यो बौधैरिति / “शतायुर्वं पुरुषः शतेन्द्रियः" इति सन्ध्याभाषा / पुरुषश्चतुर्युगात्मा द्वययुताधिकत्रिचत्वारिंशल्लक्षवर्षश्वासलक्षणो बाह्ये, अध्यात्मनि तेनैव श्वासमानेन 20 चतुर्युगात्मा, यस्मिन् काले सर्व ग्रहाणां शून्ये चरणप्रवेशो भवतीति परमार्थयुक्तिः / सत्त्वानां पुनः शुभाशुभवशेन ऊनाधिकमायुर्भवति, न शतायुरिति नियमः, तथागतवचनादिति / एषा संख्या प्रसिद्धा भवति सुनियता कालचक्रे तन्त्रराजे / नरेन्द्र इत्यामन्त्रणं T 283 वज्रपाणेः सुचन्द्रस्येति / 1. घ. भवन्ति / 2. 'कायवाकचित्तभेदैः' इत्यंशस्य व्याख्या संस्कृते भोटे वाऽपि नास्ति / 3. द्र०-५०७६ / **-t. घ. पुस्तके 'भवति' इत्यारभ्य 'तिथ्याख्याब्दानि' इति यावत् अधोलिखितः पाठक्रमः'भवति, षड् वर्षाः स्युः, यथा रवेस्तथाऽयनमपि; भृगोश्चायनं चन्द्रसूनोर्बुधस्य च तिथ्याख्याब्दानि अर्द्धचक्रोपभोगतः, नव मासाश्च भौमेश्च रात्रिरिति करणविवक्षा; एवं गुरोः'। अयं भोटानुसारं नास्ति / 25