________________ 108 विमलप्रभायां [लोकधातु इदानी देहे मध्यमा(म)वर्षशतदिनश्वासादिकमुच्यते विंशत्येके सहस्र इत्यादिविंशत्येके सहस्रे रसशतसहिते निर्गता दन्तभागैः देहे श्वासाधिका ये प्रतिदिनसमये भूतशैलतु संख्याः / षट[71a]त्रिंशद्भिः सहस्रगुणितमपि शताब्दस्य मानं प्रसिद्ध शून्याग्निप्रभक्ता प्रभवति घटिका षष्टिभागाद् दिनं च / / 64 / / विंशत्येके सहस्र अयुतद्वये सहस्राधिके रसशतसहिते षट्शतयुक्ते इति / निर्गता दन्तभागैरतो(रिति) राशे' त्रिंशद्भागैनिगता। देहे शरीरे श्वासाधिका ये प्रतिदिनसमये द्वादशलग्नं संक्रान्तिकाले भूतशलतु संख्या पञ्चसप्तत्यधिकषट्शतसंख्या दिशद्भिः सहस्रगुणितमपि शताब्दस्य मानं प्रसिद्धम्; ते श्वासा वर्षशतदिनैः 10 षट्त्रिंशद्भिः सहस्रर्गुणिता वर्षशतश्वासमानं ते भवन्ति / अत्र प्रत्यहं त्रिनाडीश्वासाः षोडशशताधिकद्वययुतसंख्या वर्षशतादिनैर्गुणिता षट्सप्तति लक्षाधिकसप्तसप्ततिकोट्यो भवन्ति / तेभ्यो द्वात्रिंशद्भागेन लब्धास्त्रिचत्वारिंशल्लक्षाधिककोटिद्वयसंख्या मध्यमाया अवधूत्याः श्वासा भवन्ति; अवशिष्टास्त्रयस्त्रिशल्लक्षाधिकपञ्चसप्ततिकोट्यो ललना रसनयोः पञ्चमण्डलवाहकाः समभागतोऽर्द्धा ललनावाहकाः, अर्द्धा रसनावाहका 15 वामसव्यतो वर्षशतावधेरिति / शून्यत्वग्निप्रभक्ता प्रभवति घटिका। ततः श्वासराशेः षष्ट्युत्तरत्रिशतेन प्रभक्का लब्धा घटिका राशिर्भवति षष्टिभागाद् दिनं च। ततो घटिकाराशेः षष्टिभागेन लब्धं दिनपिण्डं भवति मध्यमायाः पञ्चविंशत्यधिकैकादशशतसंख्या पत्रिंशत्सहस्र भ्योऽवशिष्टं दिनपिण्डं पञ्चसप्तत्यधिकाष्टचत्वारिंशच्छतोत्तरमयुतत्रयं ललनारसनयोर्वर्ष20 शतावधेतिव्यमिति / इदानीमष्टग्रहाणां वर्षशतमानं सार्द्धचक्रप्रभोगत एकपिण्डत्वेन' कालचक्ररहितमुच्यते चन्दे पक्षे रवौ चायनमपि नव मासाश्च भौमे च रात्रिः षड वर्षाः स्युगुरोः स्यादयनमपि भृगोश्चायनं चन्द्रसूनो(:)। तिथ्याख्याब्दानि शौ(सौ)रोऽतमिनि नव तथा केतुहीना* च राजन् तत् सर्वं चैकपिण्डं वसुगुणितयुगाब्दानि सार्वत्रिमासाः // 65 / / [71b] चन्द्रे पक्ष इत्यादि। चन्द्रे पक्षश्चन्द्रस्य पक्ष एकस्त्रिशद्दण्डात्मकं रात्रं भवति, अर्धराशिचक्रोपभोगतः / रवौ चायनमपि (इति) रवेरयनम(मेवा) र्द्धमहो 1. क. ख. राशै / 2. ख. षट्सप्तत्रि० / 3. घ. एकपिण्डकत्वेन / 4, भोटानुसारम् / 5. भोटानुसारम् / * 'केतुहीना च राजन्' इत्यंशस्य अत्र संस्कृते यथा व्याख्या न दृश्यते तथैव भोटानुवादेऽपि नास्ति /