________________ पटले] T282 ज्योतिर्ज्ञानविधिमहोद्देशः 107 तत् श्वासयुग्मं त्रिलिप्तमिति / अत्र सव्याव(प)सव्ये त्रिमासानां प्रतिदिनमहोरात्रे वृद्धिर्हानिर्वा श्वासद्वयं त्रीणि पाणीपलानि। ____ इदं मानं कैलाश(स)खण्डे, नार्यविषयादिके / आर्यविषये च प्रत्यहोरात्रलिप्ता द्वयं (पाणीपलानि) वृद्धिर्वा हानिर्वा वेदितव्या; मासत्रयेण मध्यविश्रु(षु)वात् त्रिंशदहोरात्रतुल्यमानान् नाडीत्रयं हानिर्वा वृद्धिर्वा अयनवशाद् वेदितव्येति / / (70b) इदानीं कैलाश(स)खण्डभेदेन द्वादशलग्नानामुदयकाल उच्यतेलिप्ता स्यान्मेषलग्ने गगननवकरं खर्तुनेत्रं वृषे स्यात् युग्मेऽप्याकाशखब्दे शररसघटिकाः स्युः कुलीरे च सिंहे / कन्यायां साषट्कं भवति खलु तुलाधु त्क्रमणैव सर्व षड लग्नरस्तमेतदुदितमपि तथाऽर्कनक्षत्रभेदैः // 63 // लिप्ता स्यान्मेषलग्ने इति / इह मेषलग्ने प्रथमोदयादपरलग्नोदयं यावत् कालो भवति / गगननवकरं लिप्तापाणीपलपिण्डं नवत्यधिकशतद्वयम्, अतः षष्टिभागेन घटिकाचतुष्टयं पञ्चाशत् पाणीपलानि मेषलग्नोदयकाल इति कैलाश(स)विषये नियमः। खर्तुनेत्रं वृषे स्यादिति / एवं वृषलग्नोदयकालः षष्ट्यु त्तरशतद्वयं पाणीपलपिण्डं चतस्रो नाड्यो विंशतिपाणीपलान्युदयकालः / युग्मेऽप्याकाशखादे युग्मेऽपि' मिथुने उदयकालः शतद्वयं लिप्तापिण्डं नाडयस्तिस्रः पाणीपलानि विंशतिरिति / स(श)ररसघटिकाः स्युरिति शर(:) पञ्चघटिका कुलीरे कर्कटलग्ने उदयकालः / ततः सिहे रस इति षट्पटिकालग्नोदये काल इति कन्यायां सार्द्धषट्कं कन्यालग्नोदयकालः षट् घटिका त्रिंशत् पाणीपलानि सार्वषट्कं भवतीति / तुलाद्युत्क्रमेणैव सर्वम् / अतः षड्लग्नकालावधेरपरषड्लग्ने तुलादिषूत्क्रमेण / एवमनेन 20 विधिना सर्वं निःशेषं भवतीति नियमः। - अत्र लग्नोदयकाले तुलायां षट् घाटिका त्रिंशत् पाणीपलानि; वृश्चिके षड्, धनुषि पञ्च, मकरे तिस्रो नाड्यः, पाणीपलानि विंशतिरिति; कुम्भे चतस्रो नाड्यः,विशति पाणीपलानि; मीने घटिकाश्चतस्रः, पाणीपलानि पञ्चाशदिति कैलासविषये नियमः / षड्लग्नरस्तमेतदुदितमिति, तथा हि-यस्मात् षड्लग्नरुदितमपि तस्मात् 25 अस्तमेतद् भवतीति / अकंस्य नक्षत्रभेदैरिति सार्द्धत्रयोदशनक्षत्रान्ते अस्त'मेतदुदयस्तथा सार्द्धत्रयोदशनक्षत्रान्ते अहोरात्रभेदेन षड्लग्नैः साद्धंत्रयोदशनक्षत्रैदिवाकालो भवति; षड्लग्नैः सार्द्धत्रयोदशनक्षत्रै रात्रिकालो भवति; लग्नोदयकालवशेन दिवारात्रि( :) होनाधिको(1) भवति, सूर्यसञ्चारवशादिति / 15 1. क. ख. ग. पुस्तकेषु 'अपि' इति नास्ति / 2. ख. अष्ट /