________________ विमलप्रभायां [लोकधातुप्रकटरविमहौ द्वादशारमह्यामिति' / भेदिता लग्नभेदैरिति / लग्ना द्वादश', तेषां भेदैर्भेदिताः कालादयो भ्रमन्ति / चतुश्चतुर्लग्नैः कालो भ्रमति; प्रत्येकप्रत्येकसन्ध्या त्रिलग्नैर्धमति; प्रत्येकप्रहरः सार्धलग्नेन म्रमति / एवं प्रत्येकलग्नं पञ्चदण्डैर्धमति; अर्धप्रहरः प्रहरार्द्धन भ्रमति; प्रहरार्द्धार्द्धन मुहत्तं भ्रमति; षष्टिपाणीपलैर्घटिका भ्रमति; 5 प्रत्येकपाणीपलं षट्श्वासैर्धमति / एवमहोरात्रं श्वासभेदेन लग्नभेदेन कालो भ्रमति गच्छति देहिनामिति / इदानीं मेरोः सर्वदिक्षु सूर्य'भ्रमणमानमुच्यतेनाड्यब्दे षट्सपादं च (न ?) क्रमति दिनकरो योजनानां सहस्रं षष्ठीनामग्निलक्षं भ्रमति दिननिशं पञ्चशैलं सहस्रम् / / 10 गोलार्द्ध खाग्नि नाडीर्वहति दिननिशं हानिवृद्धयोश्च पञ्च गोले सव्याव(प)सव्यं प्रतिदिनमपि तत् श्वासयुग्मं त्रिलिप्तम्॥६२॥ नाड्यब्धे(ब्दे) षट् सपादं क्रमति दिनकरो योजनानां सहस्रमिति / नाड्यब्धे(ब्दे) षष्ट्युत्तरत्रिशतश्वाससंख्याकाले षट्[70a]सपादं पञ्चाशद्विशताधिकषट्सहस्र मिति क्रमति दिनकरो योजनानां राशिस्थोऽयमाकाशेऽतो राशेरयं भ्रमणवेगो न सूर्यस्य 15 रास्या(श्या)धारे स्थितस्येति' अत्र राशिचक्रं सव्यावर्तेन भ्रमति, ग्रहराशिष्वव(प)सव्येन चरन्ति / यथा राशिचक्रं म्रमति तथा राहुरपि संचरति पश्चिमाभिमुखो मेरोः प्रदक्षिणां कुर्वन् / ग्रहाः पूर्वमुखा मेरोर(रोः) प्रदक्षिणां कुर्वन्तो राशिचक्रे संक्रमणं कुर्वन्ति / एवं परमार्थयुक्त्या राहुः पुण्यवान् सूर्यादयो दुष्टाः पापग्रहा उच्यन्ते इति / षष्ठीनामग्निलक्षमिति षष्ठीनां नाडीनामध्वे(ब्दे) काले षट्शताधिकैकविंशत्20 सहस्रश्वाससंख्याकाले। अग्निलक्षं विलक्षम्, पञ्चशैलं सहस्रमिति पञ्चसप्ततिसहस्र संख्या योजनानां भ्रमति; दिननिशमहोरात्रमिति / गोलार्द्ध खाग्नि नाडीर्वहति दिननिशमितीह विशु(षु)वसंक्रान्तिदिने पूर्वोक्तगोलरेखायां खाग्निः त्रिंशन्नाडीरहो वहति, त्रिंशन्नाडी रात्रि वहति, सूर्यः सममहोरात्रमित्यर्थः। हानिवृद्धचालयं (हानिवृद्धयोश्च) पञ्च गोले सव्याव(प)सव्यमिति / तस्माद् गोलार्द्धात् सव्याव(प)25 सव्यमासत्रयेण सव्ये रात्रवृद्धिः पञ्चनाड्यः, अव(प)सव्ये मासत्रयेण दिनवृद्धिः पञ्चनाड्यः। अत्र रात्रिवृद्धया दिवाहानिर्दिवावृद्धया राहानिःज्ञातव्येति / प्रतिदिनमपि 1. घ. द्वादशारमुतामिति / 2. क. द्वादशाः। 3. घ. प्रहरार्थेन / 4. क. ख. ग. पुस्तकेषु 'सूर्य' इति नास्ति / 5-6. 'राश्याधारे स्थितस्येति पदं टीकाकारेण प्रतीकं मत्वा अत्र लिखितम् / 'षष्ठीनामग्निलक्षं' इति स्थाने यदि इदं प्रतीकं नियोजितं क्रियेत, तदा छन्दोदृष्टया सामञ्जस्यमपि भवति; तथापि भोटानुवादे 'इति' शब्दं अनादृत्य एतत् पदं प्रतीकात्मना न स्वीकृतम् / अथ च टीकाकारोल्लिखितस्य प्रतीकस्य मूले यदि संयोजनं क्रियेत 'षष्ठीनामग्निलक्ष' इति पदं निरवकाशं भवेत् / अतः अनेनाधारेणात्र मूले परिवर्तनं न विहितम् / 7. क. ख. ग कुन्ति / 8. क. सूर्योदयो। 9. ग. पुस्तके नास्ति /