________________ यावत् 10 पटले ज्योतिर्ज्ञानविधिमहोद्देशः कोणाद्धस्थः पूर्वविदेहं गच्छति, पूर्व विदेहस्थोऽग्निकोणार्धं खण्डं व्रजति, पूर्वार्द्धस्थोऽपरकोणार्धं व्रजति, अपरकोणार्धस्थो दक्षिणजम्बूद्वीपं वज्रति इति द्वादशमासानां प्रतिसंक्रान्तिवशेन द्वादशखण्डेषु संचरणं ज्ञातव्यमिति / - यन्मानं यत्र खण्डे भवति दिनवशात् सप्तमे तन्निशायां भवति / इह उत्तरायणसंक्रान्ती दक्षिणखण्डे दिवामानं क्षीणं रात्रिमानं वृद्धम्; तदेवोत्तरकुरौ सप्तमे भूमिखण्डे 5 आदित्योदयवशेन दक्षिणे रात्रिवृद्धिवशेन तन्मानं त्वत्र न भवति; जम्बूद्वीपे दक्षिणोदयवशेन सप्तमे रात्रिहानिवशेन ततो दक्षिणे भवति / एवं सर्वत्र प्रत्येकखण्डे वेदितव्यमिति / लक्षावर्धमार्गे* दिनमपि पुरतः पृष्ठतोऽकस्य रात्रिरिति / इह वृत्तमानं षट्लक्षम्; सूर्यस्य गमनादर्द्धमार्गे त्रिलक्षं दिनमिति / उदयास्तमनं यावदस्तमनादुदयं यावत् रात्रिः त्रिलक्षञ्च / एवमहोरात्रं वेदितव्यमिति। / इदानी द्वादशखण्डस्थानान्मेरुस्थितिरुच्यतेसर्वेषाञ्चोत्तरस्थो भवति नरपते शैलराजो जनानां पूर्वे सूर्योदयः स्याद् गिरिसममयनं पश्चिमे चास्तमेतत् / कालाः सन्ध्याश्चतस्र : प्रहरदिननिशाः सर्वदा संक्रमन्तो मेरोदिक्षु भ्रमन्ति प्रकटरविमहौ भेदिता लग्नभेदैः // 61 // 15 सर्वेषाञ्चोत्तरस्थो भवति नरपते शेलराजो जनानामिति / इह द्वादशखण्डे स्थितानां जनानां शैलराजो मेरुरुत्तरे भवति / पूर्वे सूर्योदयः स्यादिति सर्वेषां मेरोः सर्वखण्डस्थितानाञ्च यत्र भानुरुदयति सा पूर्वदिग् भवति; दक्षिणे जम्बूद्वीपस्थानां' पूर्वविदेहं पूर्वदिक्; अपरगो [69b] दान्यां जम्बूद्वीपं पूर्वदिगुत्तरस्थानामपरगोदानी पूर्वदिक्; पूर्वविदेहस्थानामुत्तरकुरुः पूर्वदिक्, 20 सूर्यभ्रमणोदयवशादिति / एवं कोणस्थितेषु अष्टखण्डेषु ज्ञातव्यमिति / पञ्चपञ्चदण्डान्तरेण प्रत्येकखण्डे सूर्योदय इति / गिरिसममयनमिति प्रत्येकखण्डे गिरिसमं मेरोरभिमुखं सूर्यगमनमुत्तरे दक्षिणे च पश्चिमे चास्तमेतत् / एवं द्वादशखण्डेषु यथापूर्वे उदयस्तथा पश्चिमेऽस्तमेतद् वेदितव्यमिति / कालास्त्रयः-प्रभातो मध्याह्नो विकाल इति / सन्ध्याश्चतस्रः-अर्धरात्र- 25 सन्ध्या पूर्वसन्ध्या मध्याह्नसन्ध्या विकालसन्ध्या / प्रहरा अष्टौ (ष्ट)-दिवायां चत्वारः, रात्रौ चत्वारः। दिननिशं (शाः) सर्वदा संक्रमन्तः / एवं कालादयोऽहोरात्रं सर्वस्मिन् काले संक्रमन्तः खण्डात् खण्डं मेरोदिक्षु भ्रमन्ति / 1. क. स्थानम् / 2. ख. चाष्टमेतत् / 3. क. ग. दिवा। 4. क. संक्रामन्तः / 5. क. कालोदयो। *-1 घ. पुस्तके नास्ति /